Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः] अनर्घराधवम् ।
२७५ रामः-(निर्वर्ण्य सस्मितम् ।) तत्तादृक्फणिराजरज्जुकषणं संरूढपक्षच्छिदा
घातारुंतुदमप्यहो कथमयं मन्थाचलः सोढवान् । एतेनैव दुरात्मना जलनिधेरुत्थाप्य पापामिमां ___ लक्ष्मीमीश्वरदुर्गतव्यवहृतिव्यस्तं जगन्निर्मितम् ॥ ११ ॥ सीता-(सोद्वेगम् ।) इमिणा जेव्व मत्थुसेसीकिददुद्धसाअरेण चन्दमुद्धरिअ पउसिदभत्तुणो इत्थिआजणस्स उवरि चारहली विढत्ता ।
(सर्वे हसन्ति ।) तत्ताहगिति । तत्प्रसिद्धम् । तागतिगुणवत् । फणिराजो वासुकिः । स एव रज्जुर्मथनदोरकम् । कषणं घर्षणम् । संरूढ उपचितः । पक्षच्छिदा पक्षच्छेदः । 'इरितो वा' इत्यङ् । घातः किणः। अरंतुदं व्रणव्यथाकरम् । नवसंरूढवणे घर्षणाद्द:खं भवत्येवेत्लनुभवसिद्धम् । 'विध्वरुषोस्तुदः' इति खश् । 'अरुर्द्विषदजन्तस्य-' इति मुम्, सलोपश्च । मन्थाचलो मन्दरः। सोढवान्कथम् । निष्फलमित्यर्थः । यद्वा केन प्रकारेण । अशक्यवात् । कुतस्तनिरर्थकमित्यत आह-एतेनैव मन्थाचलेन समुद्रादिमां लक्ष्मीमुत्थाप्य इदं जगदीश्वरदुर्गतव्यवहारेण व्यस्तमाकुलं निर्मितं कृतम् । लक्ष्म्या अनुत्पत्तौ जगदेकप्रकृति स्यात् । नतु कोऽपि दुर्गतः कोऽपीश्वर इति । स्त्रीनिन्दामसहमाना सीता च.. न्द्रात्प्राप्तसंतापा पुरुषमपि चन्द्रं निन्दयितुं स्वं लक्ष्यीकृत्याह-इमिणा जेव्वेति । 'अनेनैव मस्तुशेषीकृतदुग्धसागरेण चन्द्रमुद्धत्य प्रोषितभर्तृकस्य स्त्रीजनस्योपरि चारहली विस्तीर्णी' [इति च्छाया।] इह मस्तु तक्रविशेषो दधिजलम् 'घोल' इति प्र.. सिद्धम् । 'मण्डं दधिभवं मस्तु' इत्यमरः। तथा च निःसार इत्यर्थः । चारहली पौरुषम् । देशीशब्दोऽयम् । ननु सीतायाः स्वात्मानमुद्दिश्य मन्दं पापालम्भः (2) तथा च तस्याः प्रोषितपतिकात्वमनुपपन्नम् । तथा हि भरतः—'कुतश्चित्कारणाद्यस्याः पतिर्देशान्तरं गतः । दत्त्वावधि भृशार्ता सा भवेत्प्रोषितभर्तृका ॥' इति । उच्यते-पोषितभर्तृकेति विरहिण्या उपलक्षणम् । विरहिणी च कान्तसङ्गमप्राप्तवती विप्रलम्भरसमनुभवन्ती कालं क्षिपतीति स्थितिः । इदं च सीतायामप्यभूदेवेत्युपपन्नम् । यद्वा मायाहेममृगवधार्थ तद्धारणमेवावधिं दत्वा रामे देशान्तरं गतवति भवत्येव तदा सीता प्रोषितभर्तृकेति । यद्वा प्रोषिता नाम नवमी नायिका । अष्टौ नायिका इत्युपलक्षणम् । सा च सीतैव । तदुक्तं भरते-'प्रवासोऽन्यत्र गमनं भर्तुस्तच्च विशेषणम् । सीतां च कथमाचटे जनः प्रोषितभर्तृकाम् ॥ अन्तर्भावमपश्यद्भिः पश्यद्भिर्जनकात्मजाम् । प्रोषिता नाम नवमी नायिका स्त्रीत्युदाहृतम् ॥ आयोध्यकस्य गृहिणी राक्षसेन प्रवासिता । प्रवासविप्रलब्धातो
१. 'सावेगं ससंभ्रमम्'.
For Private and Personal Use Only

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331