Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः ]
अनर्घराघवम् ।
यष्टिस्थे सपदि प्रदीपमुकुले दग्ध्वा दशां मल्लिकातैले प्रज्वलति स्तृणोति वसतीर्यन्नाभिदनं तमः ॥ १२४ ॥ लक्ष्मणः—(अग्रे दर्शयन् ) एते भगवत्यौ भूमिदेवानां मूलायतनमन्तर्वेदी पूर्वेण कृष्णागुरुमलयजमयमङ्गरागमिवान्योन्यस्य कुर्वाणे कलिन्दकन्यामन्दाकिन्यौ संगच्छेते ।
हिमालयोत्सङ्गसदाधिवासतो जातेव पाण्डुः प्रतिभाति जाह्नवी । निदाघभानोः पितुरङ्कलालनात्कृतेव काली यमुना च दृश्यते ॥ १२५ ॥
(विभाव्य च ।)
बलिद्विषः पादनखांशुराजिभिः स्मरारिमौलीन्दुमरीचिवीचिभिः । हिमाद्रिनिः स्यन्दरसैः पदे पदे विवर्धते वैबुधसैन्धवी रुचिः ॥ १२६ ॥ अपि च ।
प्रयागः सर्वतीर्थेभ्यस्तीर्थमुच्चैस्तरामयम् ।
संसाराब्धेः परं पारमिहस्थैरवलोक्यते ॥ १२७ ॥
:
रामः --- ( सादरम् ) किमुच्यते ।
सत्यमेव प्रयागोऽयं मोक्षद्वारमुदीर्यते ।
देव्यौ यस्याभितो गङ्गायमुने वहतः श्रियम् ॥ १२८ ॥
३११
For Private and Personal Use Only
नैविड्यमिति भावः । यद्यस्मात् यष्टिस्थे प्रदीपमुकुले दशां दग्ध्वा मल्लिकातैले प्रज्वलति सति । नाभिदघ्नं नाभिप्रमाणं तमः कर्तृ वसतीर्वेश्मानि स्तृणोत्याच्छादयति । तथा च समस्तरजन्यां दशायां दग्धायां मल्लिकाभ्यन्तरे ज्वलति सति प्रदीपे गृहाभ्यन्तर उपरिभागे उद्योतः अधोभागेऽन्धकार इति भावः । समस्तरजन्यां क्रीडनात्कामिनीचातु र्यमपि प्रकटितम् । 'वसती रात्रि वेश्मनो:' इत्यमरः । एते इत्यादि । भूमिदेवानां ब्राह्मणानाम् । मूलायतनं मूलावस्थितिस्थानमित्यन्तर्वेदीविशेषणम् । अन्तर्वेदी देशविशेषः । "एनपा द्वितीया' इति द्वितीया । कृष्णागुरुमलयजमयमङ्गरागमन्योन्यं कुर्वाणा इति यमुनागङ्गयोर्यथाक्रममन्वयः । मलयजं चन्दनम् । 'कालिन्दी सूर्यतनया यमुना' इत्यमरः । संगच्छेते संगतीभवतः । 'समो गम -' इत्यादिना तङ् । काली श्यामला । 'कालइया - मलमेचकाः' इत्यमरः । निदाघभानोरुष्णतेजः संबन्धाच्छ्यामतेति तात्पर्यम् । बलीति । बलिं द्विषन् विष्णुः । स्मरारिर्महेशः । विबुधसिन्धुर्गङ्गा । तत्संबन्धिनी । 'हृद्भग-' इत्यादिनोभयपदवृद्धिः । पदे पदे प्रतिपदम् । तेषां सर्वेषां श्वेतानामुत्तरोत्तरसंबन्धात्प्रतिपदं शुक्ला द्युतिर्विशेषेण वर्धत इति भावः । उचैस्तरां महत् । परं पारमुत्तरं कूलम् ।
१. 'पूर्वतः २. 'जडेव' ३ 'कालीकृता वा'. ४. 'संसारस्य'.

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331