Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 317
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१० काव्यमाला। सीता--(सस्मितानुरागं साचीकृताक्षी रामं पश्यन्ती पुरीं प्रति ।) अम्ब मिहिले, वन्दिज्जसि । गुरुअणे वि वन्दणं मे विण्णवेसि । रामः-(मुग्रीवविभीषणौ प्रति ।) वयस्यौ, इयं सा जानकी प्रजायमानाया भगवत्या भूमेररिष्टमन्दिरं मिथिला । सुग्रीवभिवीषणौ-(सकौतुकसस्मितम् ।) यत्र भगवतः पार्वतीजीवितेश्वरस्य धनुर्धनुरन्तेवासिनावजगवभार्गवौ भञ्जतो भवतः सहपांसुक्रीडादी. घसखीय वीरलक्ष्मीः । रामः--(सर्लज्जस्मितमन्यतो दर्शयन्सीतां प्रति ।) देवि, इयं पुनस्ततोऽपि पुरस्ताच्चम्पा नाम गौडानां विनयमधुरशृङ्गारविभ्रमरमणीया मैंकरकेतनकुमारव्रतचर्यातपोवनमिव राजधानी । (अपवार्य च ।) इह हि रोमाञ्चोच्छ्रसदङ्गसंधिनिबिडैरालिङ्गनैर्यामिनी शेषीकृत्य विवृण्वते निजरहश्चातुर्यमेणीदृशः। ताक्षी वक्रीकृताक्षी। साचीत्यव्ययं वके । “तिर्यगर्थे साचि तिरः' इत्यमरः । अम्बेति । 'अम्ब मिथिले, वन्द्यसे । गुरुजनेऽपि वन्दनं मे विज्ञापयिष्यसि' [इति च्छाया । इह अन्न हे मातरित्यर्थः । जानकी प्रजायमानाया जानकी जनयन्त्या इत्यर्थः । प्रपूर्वाणिजर्थोऽत्र गम्यते। ‘जातापत्या प्रजाता च प्रसूता च प्रसूतिका' इत्यत्र तथादर्शनात् । प्रजाता इनितापत्येत्यर्थात् । अरिष्टमन्दिरं सूतिकागृहम् । अजहटिङ्गतया मिथि. लाविशेषणम् । 'अरिष्टं सूतिकागृहम्' इत्यमरः । मन्दिरपदं स्फुटवार्थम् । तेन न पुनरुक्तिः । यत्रेत्यादि । यत्र मिथिलायां पार्वतीजीवितेश्वरस्य शिवस्य । धनुश्च धनुरन्तेवासी चेति द्वन्द्वः । अजगवभावावित्यस्य यथाक्रमं विशेषणम् । शिवस्य धनुरजगवः शिवस्य धनुरन्तेवासी धनुर्विद्यायां शिष्यो भार्गवः । तौ भातस्तवेत्यन्वयः । वीरस्य लक्ष्मीरिलक्ष्मीः । इयं पुनरिति । पुरस्तादग्रे गौडानां गौडीयानां नगरीत्यन्वयः । चम्पानाम 'चम्पा' इति ख्याता। कीदृशी। विनयेन मधुरो मनोहरो यः शृङ्गारो रसस्तस्य विभ्रमेण विलासेन रमणीया रम्या । मकरकेतनस्य कामस्य कुमारस्य व्रतं कुमारव्रतं तस्य चर्या आचरणं तस्यास्तपोवनमिवेयजहल्लिङ्गतयान्वयः। तथा च तत्र सर्वदा कामो जागरूक एव वर्तत इति भावः । 'मकरकेतनविलासतपस्तपोवनमिव' इति क्वचित्पाठः । इह हीत्यादि । इह चम्पायामेणीदृशो मृगाक्ष्यः आलिङ्गनरर्थाद्वल्लभस्य यामिनी रात्रिं शेषीकृत्य किंचिदवशिष्टां कृत्वा निजरहश्चातुर्य खीयैकान्तवैदग्ध्यं विवृण्वते प्रकाशयन्ति। कीदृशैः। रोमाञ्चेनोच्छ्रसनुपचयं गच्छन् योऽङ्गस्य संधिरवयवद्वयमध्यभागः सं. धिरिति ख्यातस्तेन निबिडैर्गाः। तथा च रोमाञ्चेनाङ्गस्य निनोन्नतसमतया आलिङ्गनस्य १. 'कृताङ्गी'. २. 'वयस्यौ' इति पुस्तकान्तरे नास्ति. ३. 'तौ सकौतुकम्'. ४. 'पार्वतीदयितस्य'. ५. 'धेनुरन्तवासिनौ'. ६. 'सस्मितम्'. ७. 'मकरकेतु-'.८. 'अगसङ्ग'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331