Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७ अङ्कः]
अनर्घराघवम् ।
३१९
1
तू -
(रामस्तथा करोति । वसिष्ठ ऐन्द्रेण महाभिषेकेण मन्त्रपूर्वकमभिषिश्चति । अन्ये च्चावचमभिषेकं नाटयित्वा पञ्चाङ्गचुम्बितभूमयः प्रणमन्ति । नेपथ्ये मंगलगीतिर्नान्दीवाद्यानि च ।)
वसिष्ठः - (तहर्षम् । ) वत्स रामभद्र, संप्रति उदयदुदयद्धर्मस्कन्धे धुरं त्वयि विभ्रति
Acharya Shri Kailassagarsuri Gyanmandir
कनु परिभवौ दृष्टादृष्टौ प्रजाः परिचिन्वते ।
अपि खलु यथा जीवात्मानः प्रभोः परमात्मनो
दिशि दिशि दिशामष्टौ नाथास्तवैव बिभीषिकाः ॥ १४८ ॥ (रामो लज्जते ।)
विभीषणः - ( कृताञ्जलिर्जानुभ्यां प्रणिपत्य ।) देव,
लङ्का च पुष्पकमिदं च विमानमार्याद्यक्षेश्वरादपहृतं दशकंधरेण ।
द्रासनं सिंहासनं तु तत् । हैमम्' इत्यमरः । राजन्वन्तः प्रशस्तराजयुक्ताः । उत्तरको - शला देशविशेषाः। तत्रस्था लक्ष्यन्ते । ऐन्द्रेणेन्द्रसंबन्धिना । यथेन्द्रस्याभिषेकस्तथेत्यर्थः। नान्दी अभ्युदयपूर्वकं तूर्यमित्यर्थः । उदयदिति । उदयदुदयर्भस्कन्धे अत्यन्तोदयमानधर्म एव स्कन्धो यस्य तादृशे त्वयि धुरं भारं बिभ्रति दधति सति दृष्टरूपः परिभवः परचक्रजातः अदृष्टरूपोऽनावृष्ट्यादिः तौ प्रजा लोकाः क्व नु परिचिन्वते । अपि तु न क्वापि जानन्तीत्यर्थः । 'अदृष्टं वह्नितोयादि दृष्टं खपरचक्रजम्' इत्यमरः । अपिः समुच्चये । दिशि दिशि प्रतिदिशम् । दिशामष्टौ नाथा इन्द्रादयस्तवैव विभीषिकाः प्रपञ्चाः । 'तवैव विभूतयः' इति क्वचित्पाठः । तत्राप्ययमेवार्थः । दृष्टान्तमाह--यथा परमात्मनः प्रभोर्जीवात्मानः प्रपश्चास्तथा । वेदान्तिभिरेकस्तावत्प्रधानभूतः परमात्मा वास्तवः स्वीक्रियते । तेषामद्वैतवादित्वात् । अन्ये जीवात्मानस्तस्यैव प्रपञ्चा अविद्यासंपन्ना अवतिष्ठन्त इति तन्मतेन । प्रभोः परमात्मन इति षष्ठ्यन्तं पदम् । यद्वा पञ्चम्यन्तेन परमात्मशब्देन मुक्तात्माभिप्रेतः । जीवात्मानः संसारिण आत्मानः । तथा च नैयायिकस्याशेषविशेषगुणोच्छेदो मोक्ष इति मतम् । स च पुरुषार्थः । आत्यन्तिकदुःखोच्छेदवशात् । तेन हि संसार्यात्मतो मुक्तात्मा श्रेष्ठ इत्युच्यते । तव तु राज्ये प्रभोः परमात्मनः सांसारिका एवात्मानोऽतिश्रेष्ठाः । यतस्त्वद्राज्ये संसारिणां त्वत्सप्रादात्सुखानुभव एव केवलं न तु दुःखानुभवोऽपीति भावः । लङ्केति । पुष्पकं पुष्पकसंज्ञकः कुबेररथः ।
१. 'ऐन्द्रेण महाभिषेकेण' इति पुस्तकान्तरे नास्ति. २. 'मङ्गलगीतिनान्दीर्मङ्गलवाद्यानि '; 'मङ्गलगीतिनान्यादि'.
For Private and Personal Use Only

Page Navigation
1 ... 324 325 326 327 328 329 330 331