Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 327
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२० काव्यमाला। एकां भवानदित मह्यमथेदमन्य दाज्ञापय द्रुतमुपैतु पति निधीनाम् ॥ १४९ ॥ रामः-(वसिष्टेनानुज्ञातः पुष्पकं प्रति।) विमानराज, प्रथमखामिनं प्रथमपौलस्त्यमुपतिष्ठख । वसिष्ठः-(सहर्षप्रसादम् ।)-रामभद्र, किं ते भूयः प्रियं करोमि । रामः-भगवन् , किमतः परमपि प्रियमस्ति । भगवत्प्रसादात् ताताज्ञामधिमौलि मौक्तिकमणिं कृत्वा महापोत्रिणो दंष्ट्राविन्ध्यविलासपत्रशबरी दृष्टा भृशं मेदिनी । सेतुर्दक्षिणपश्चिमौ जलनिधी सीमन्तयन्नर्पितः कैल्पान्तं च कृतं च विश्वमदशग्रीवोपसर्ग जगत् ॥ १५० ॥ तथापीदमस्तु । समुन्मीलत्सूक्तस्तबकमकरन्दैः श्रवणयो रविश्रम्यद्धाराँसवनमुपचिन्वन्तु कवयः । न शब्दब्रह्मोत्थं परिमलमनाघ्राय च जनः कवीनां गम्भीरे वचसि गुणदोषौ रचयतु ॥ १५१ ॥ 'विमानं तु पुष्पकम्' इत्यमरः । विमानमाकाशगरथः । 'व्योमयानं विमानोऽस्त्री' इत्य. मरः । यक्षेश्वरात्कुबेरात् । एकां लङ्काम् । अदित दत्तवान् । अन्यत्पुष्पकम् । निधीनां पतिं कुबेरम् । उपतिष्ठस्वेति संगतकरणे तङ् । 'देवतादर्शनान्तं तु कर्तव्यं नाटकं बुधैः। राजर्षिदर्शनान्तं वा तेऽपि देवैः समा मताः ॥' इति भरतानुरोधाद्वसिष्टदर्शनान्तमिदम् । महावाक्यार्थमुपसंहर्तु भूमिमारचयति-ताताज्ञामिति । ताताज्ञां पितुरादेशं अधिमौलि मौलौ मौक्तिकमणिं कृला मेदिनी पृथ्वी दृष्टा महापोत्रिणो महावराहस्य दंष्ट्रेव यो विन्ध्यः पर्षतविशेषः स एव विलासार्थ पत्रावली कर्णालंकारविशेषो यस्यास्तादृशी शबरी भिल्लीव दृष्टा । पितुराज्ञया चण्डालस्त्रीव पृथ्वी मया त्यक्तेति भावः । दक्षिणपश्चिमौ समुद्रौ कर्मभूतौ सीमन्तयन् द्विधा कुर्वन् सेतुरर्पितः क्षिप्तः । विश्वं समस्तं च जगत्कल्पान्तं व्याप्य दशग्रीव एवोपसर्गो व्याधिविशेषः । दुःखजनकत्वात् । तच्छून्यं कृतं च । अतः परमपि प्रियमस्तीत्यन्वयः । 'वरप्रदानसंप्राप्तिः काव्यसंहार उच्यते' इति भरतानुरोधादाह-तथापीति । तदेवाह-समुन्मीलदिति । समुन्मीलन् विकासं गच्छन् यः सूक्तं सुष्टूक्तमेव स्तबको गुच्छस्तस्य मकरन्दै रसैः श्रवणयोः कर्णयोः अविश्रम्यद्धारासवनं निरन्तरधारास्नानं कवय उपचिन्वन्तु लभन्ताम् । जनश्च १. 'उपकरोमि'. २. 'भवतः प्रसादात्'. ३. 'कल्पान्तेऽपि'. ४. 'स्नपन-'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331