Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 316
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ अङ्कः] अनर्धराघवम् । अपि चैनां नित्यमध्यास्ते भगवान् कण्ठच्छायनिपीतपन्नग फणारलौघमात्र स्थितौ हारे निर्भयपार्वती भुजलताबन्धोल्लसत्कंधरः तत्सर्वाङ्गविरामवामनतमैरेव खरैः सामगं विभ्रह्मशिरः शिवाय जगतामेणाङ्कचूडामणिः ॥ १२२ ॥ (अन्यतो दर्शयन्, सीतां प्रति ।) देवि, दृश्यतामितः । नवोन्मीलन्मौर्वीकिणनिकर कार्कश्यसदय प्रवृत्तस्त्वत्पाणौ किमपि निबिडं पीडयति मे । कृतार्थोऽयं यस्यां समजनि करः सैव पुरतः पुरी पूर्वेषां ते नयनमियमालानयति नः ॥ १२३ ॥ For Private and Personal Use Only ३०९ इत्यमरः । इह वाराणसीनाम्नि द्वीपे विश्रान्तैर्विगतपरिश्रमैः । एनामध्यास्त इति 'अधिशीस्थासां कर्म' इत्याधारे कर्मत्वम् । कण्ठेति । एणाङ्कचूडामणिः शिवो जगतां शिवायास्तु इति संबन्धः । कीदृशः । तत्प्रसिद्धं ब्रह्मशिरो ब्रह्मकपालं विश्रद्दधत् । पुनः कीदृशः । कण्ठच्छायया नीलगलप्रतिबिम्बेन पीत आच्छादितो यः सर्पफणारत्नसमूहस्तन्मात्रेणावस्थितिर्यस्य तादृशे हारे वासुकिस्वरूपे सति अत एव निर्भया या पार्वती तस्या भुजलताबन्धेनोल्लसन्ती कंधरा ग्रीवा यस्य सः । अन्यदा शिरोरत्नदीप्तवासुकिदर्शनाद्भयम्, इदानीं तु न तथेति भावः । ब्रह्मशिरः कीदृशम् । खरैः सामगं सामवेदगायनम् । कीदृशैः । सर्वाङ्गविरामेण शिरोव्यतिरिक्ताङ्गशून्यतया वामनतमैरतिनीचैः । कण्टस्य च्छायेति समस्य, 'विभाषा सेनासुराच्छाया-' इत्यादिना क्लीबत्वम् । 'छाया सूयेप्रिया कान्तिः प्रतिविम्बमनातपः' इति नानार्थः । नवोन्मीलदिति । पुरतोऽग्रे ते तव पूर्वेषां पूर्वपुरुषाणां सैवेयं पुरी मिथिला नोऽस्माकं नयनमालानयति बन्धयति । तत्रात्यर्थ लगतीत्यर्थः । 'पूर्वोऽन्यलिङ्गः प्रागाह पुंबहुत्वे च पूर्वजान्' इत्यमरः । सा का | यत्र पुर्या त्वत्पाणावधिकरणे । मौर्वी हरधनुर्गुणः । किणो व्रणार्बुदस्तस्य निकरः समूहस्तस्य कार्कश्यात्काठिन्याद्धेतोः सदयं यथा स्यादेवं प्रवृत्तो व्यापारोद्यतः सन् अयं मे मकरः किमप्यनिर्वचनीयमनुरागातिरेकान्निबिडं गाढं यथा स्यादेवं अर्थात्त्वत्पाणिमेव कर्मभूतं मत्कर एवं कर्तृभूते पीडयति सति कृतार्थोऽजनि कृतकृत्यो जातः । यद्यपि पीडनक्रियायाः कर्मपदं कर्तृपदं च शब्दतो न श्रूयते तथाप्यर्थमहिनैव शाब्या वृत्त्यानुक्तयोरप्यार्थ्या वृत्त्यैव व्याख्यानरीत्या प्रत्यासत्त्यैव तयोरुपस्थितिरित्यवधातव्यम् । पाणिपीडनं विवाहः । ' तथा परिणयोद्वाहोपयामाः पाणिपीडनम्' इत्यमरः । साचीकृ१. 'नित्यम्'. २. ' अन्यतश्च'. अन० २७

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331