Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 319
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३१२ (सीतां प्रति 1) देवि, प्रणम्यतामितः । काव्यमाला | श्यामो नाम वटः सोऽयमेतस्याद्भुतकर्मणः । छायामप्यधिवास्तव्यैः परं ज्योतिर्निषेव्यते ॥ १२९ ॥ (सर्वे प्रेणमन्ति ।) रामः -- ( विमानवेगनाटितकेन सहर्षम् ।) यूपाङ्कुरप्रकरदन्तुरतीरलेखासंख्यायमानमनुसंततिसप्ततन्तुः । इक्ष्वाकुराजमहिषीपदपट्टलक्ष्मी देव्या भुवो भगवती सरयूरियं नः ॥ १३० ॥ इयं च भगवत्ययोध्या Acharya Shri Kailassagarsuri Gyanmandir गगनगतास्मदुदीक्षणकुतूहलोत्तान पृथुल निः स्यन्दैः । उन्नालस्थलकुवलयवनमिव जनलोचनैः क्रियते ॥ १३१ ॥ (सर्वे मस्यन्ति 1) सुग्रीवविभीषणौ – (निर्वर्ण्य ।) -- वृन्तैरिव क्रतुसहस्रभुवां फलानामालोक्य यूपनिकरैर्मधुरामयोध्याम् । यस्य मोक्षद्वारस्य । श्रियं द्वारशोभाम् । अभितः पार्श्वद्वये गङ्गायमुनयोरवस्थानात्प्रयागस्य द्वारशोभा । अन्यस्मिन्नपि द्वारपार्श्वद्वये खातं भवतीति ध्वनिः । श्याम इति । सोऽयं श्यामो नाम वटोऽक्षयवटोऽस्ति । एतस्य वटस्य छायामप्यधिवास्तव्यैः पुरुषैः परं श्रेष्ठं ज्योतिस्तेजो निषेव्यते । अपिर्विरोधाभासे । छायायां स्थितस्य तेजोनिषेवणमिति विरुद्धम् । अत एवाद्भुतमाश्चर्यकारि कर्म यस्य तस्य । तथा चास्याक्षयवटस्य तटस्थेन परं ब्रह्माधिगम्यत इति वाक्यार्थः । छायामिति 'उपान्वध्याङ्वसः' इत्याधारस्य कर्मता । वास्तव्य इति ‘वसेस्तव्यत्कर्तरि णिच्च' इति तव्यत् । यूपेति । नोऽस्माकमियं सरयूर्न-दीविशेषोऽस्तीत्यन्वयः । कीदृशी । यूपरूपोऽङ्कुरो यूपाङ्करस्तत्प्रकरेण तेषां समूहेन दन्तुरा उन्नतदन्ता इव यास्तीरलेखास्ताभिः संख्यायमाना गणनाविषयीकृता मनुसंततीनां मनोरपत्यानां राज्ञां सप्ततन्तवो यज्ञा यया सा । तीरखातयूपसमूहेनैव मनुसंततियज्ञसंख्या ज्ञातेति । पुनः कीदृशी । भुवो देव्याः पृथिव्या इक्ष्वाकुराजमहिषीपदे पट्टलक्ष्मीरिव | महिषी महादेवी | पट्ट: 'पटवासि' इति ख्यातः । तस्य लक्ष्मीः शोभा । 'सप्ततन्तुर्मख: ऋतुः' इत्यमरः । गगनगतेत्यादि सुगमम् । निर्वर्ण्य दृष्ट्वा । 'निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः। वृन्तैरिवेति । अयोध्यामालोक्य इहायोध्यायां प्रवसतां प्रकर्षेणा १. 'अध्यधि-'. २. 'नमन्ति'. ३. 'गगनतलास्म'. ४. ' प्रणमन्ति'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331