Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः] अनर्घराघवम् ।
३१५ अपि च । त्रिजगदङ्गनलङ्घनजाचिकैस्तव यशोभिरतीव पवित्रिताः ।
प्रथमपार्थिवपुंगवकीर्तयो विबुधसिन्धुजलैरिव सिन्धवः ॥ १३८ ॥ तथापीदमस्तु ।
जगदालोकधौरेयौ सूर्याचन्द्रमसाविव । पुत्रौ गोत्रस्य गोप्तारौ जनय स्वभुजाविव ॥ १३९ ॥
(सीता मुनि वन्दते।) वसिष्ठः-वत्से जनकवंशसुवासिनि, युवयोः साधारणीमेव रामस्य वयमाशिषमवोचाम ।
सीता-(सहर्षमात्मगतम् ।) अम्मो णिस्सावत्तअं मे अजउत्तस्स घरणितणं हुविस्सदि।
लक्ष्मणः-सगरगोत्रगुरो मैत्रावरुणे, सौमित्रिरभिवादयते ।
दृशम् । प्रतिपक्षकीर्तिनिवहानादाय ब्रह्माण्ड एव मूषा आवर्तनघटिका 'मूस' इति ख्याता तस्या अभ्यन्तरे खैरेव तेजोनिभिर्धमता । भवतेत्यर्थात् । 'ध्मा अग्निसंयोगोपतापयोः'। 'पाघ्रा-' इत्यादिना धमादेशे शतरि रूपम् । 'तैजसावर्तनी मूषा' इत्यमरः । तत्तादृगस्युत्कृष्टपुटपाकेन ‘घलिआ' इति ख्यातेन मृत्तिकालेपादिना शोधितम् । अन्यदपि द्रव्यं वर्तुलीकृत्य मूषिकायामग्निना धम्यते । पुटपाकं कृत्वा पिण्डीक्रियत इति ध्वनिः । 'त्रिजगदिति । जाचिकैरतिगन्तृभिः । विबुधसिन्धुजलैगङ्गाजलैः । सिन्धवः समुद्राः । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः। जगदिति । गोत्रस्य कुलस्य गोप्तारौ रक्षको पुत्रौ जनयेत्यन्वयः । स्वभुजाविवेति गोप्तृत्वे सादृश्यम् । कीदृशी जगतो लोकस्य य आलोको दीप्तिः । विपक्षतमोनाशात् । तत्र धौरेयौ धुरंधरौ । सूर्याचन्द्रमसाविति 'देवताद्वन्द्वे च' इत्यानङि रूपम् । 'धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः' इत्यमरः । 'संततिर्गोत्रजननकुलान्यभिजनान्वयौ' इति च । सुवासिनी पितृभवनस्था नारी । 'सोआसुनि' इति ख्याता । 'चिरण्टी तु सुवासिनी' इत्यमरः । अम्मो इति । 'अम्मो निःसापत्न्यं मे आर्यपुत्रस्य गृहिणीत्वं भविष्यति' [ इति च्छाया।] इह अम्मो हर्षे देशी । अभये अभयनिमित्तम् । गीर्वाणग्रामणीर्देवाधिप इन्द्रः । 'ग्रामणी
१. "किं च'. २. 'एतदस्तु'.
३. 'रामचन्द्रस्य भगवत्याश्च'.
For Private and Personal Use Only

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331