Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. काव्यमाला।
वसिष्ठः-वत्स लक्ष्मण, आशिषां विषयमतिक्रम्य वर्तसे ।
वीरमिन्द्रजितं जित्वा दिष्टया वर्धयतो जगत् । अभये दक्षिणीयस्ते गीर्वाणग्रामणीरपि ॥ १४० ।। तथापि यूयं सर्वेऽपि द्वौ द्वौ जनयतात्मजौ ।
यैरादिराजवंशोऽयमष्टशाखः प्ररोहति ॥ १४१ ॥ रामः-(सहर्ष कृताञ्जलिः ।) भगवन् , परमनुगृहीतमिक्ष्वाकुकुलम् ।
भरतः-(रामं प्रति।) आर्य, शून्यभवनप्रकोष्ठैकरक्षापदातिर्भरतः प्रणमति । रामः-(सहर्षमालिङ्गय ।) वत्स भरत,
आत्मानमिन्दुकरमेदुरचन्द्रकान्त
स्तम्भोज्ज्वलं वितर मे हृदि निर्वृणोमि । न भ्रातृसंगमसुखासिकया जहाति
विष्णोः सकौस्तुभमुरश्चपलापि लक्ष्मीः ॥ १४२ ।। भरत:-(सीतां प्रति ।) देवि, प्रणमामि ।
सीता-वच्छ भरद, उण्हकरकिरणणिउरम्बचुम्बिअकमलखण्डं विष चिरं मे णअणं आणन्देहि ।
(लक्ष्मणो भरतं वन्दते ।) पिते पुंसि त्रिषु श्रेष्ठेऽधिपेऽपि च' इत्यमरः । दक्षिणीयो दक्षिणार्हः । इन्द्रजिजयेनेन्द्रस्याप्यभये दक्षिणा भवता दत्तेति । इन्द्रस्याप्यभयं वृत्तमिति भावः । 'दक्षिणीयो दक्षिणाईस्तत्र दक्षिण्य इत्यपि' इत्यमरः । आदिराजो मनुः । भवनं गृहम् । द्विधाकृ. तस्य गृहस्य द्वारि बहिर्भूतो भागः प्रकोष्ठः 'ओहारी' इति प्रसिद्धः । तन्मात्ररक्षायां पदातिः । आत्मानं खशरीरम् । 'आत्मा देहमनोब्रह्मखभावगतिबुद्धिषु' इति नानार्थः । मेदुरमतिचिक्कणम् । 'सान्द्रस्निग्धस्तु मेदुरः' इत्यमरः । चन्द्रकान्तस्तम्भोज्ज्वलमिति तद्वच्छीतलमिति भावः । वितर देहि । संयोजयेति यावत् । निर्वृणोमि सुखी भवामि । दृष्टान्तमाह-भ्रातृसंगमसुखासिकयैव चञ्चलापि लक्ष्मीः सकौस्तुभं विष्णोर्हृदयं न त्यजति । समुद्रसमुद्भूतत्वादेव कौस्तुभस्य लक्ष्म्या भ्रातृत्वम् । वच्छेति । 'वत्स भरत, उष्णकरकिरणनिकुरम्बचुम्बितकमलखण्डमिव चिरं मे नयनमानन्दय' [इति च्छाया ।। १. 'प्रवर्तते' २. 'सीतां नमति'. ३. 'सीते, भरतस्त्वां नमति'.
For Private and Personal Use Only

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331