Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 305
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९८ काव्यमाला। रामः-(विहस्यान्यतो दर्शयन् ।) रमयति मलयाचलोऽयमस्मादुपनमता पवनेन मानिनीनाम् । दयितविनयकूटसाक्षिणीभिः स खलु सखीभिरदुष्करप्रबोधः ॥ ९३ ॥ लक्ष्मणः-(अंग्रे दर्शयन् ।) । स्वपाणिप्राग्भारप्रबलविततोत्तानसलिल स्वयंदृष्टक्रीडत्तिमिनिवह लग्नामिव घृणाम् । दधानस्यापीतोज्झितजलनिधेरेतदपरं पुरो लोपामुद्रासहचरमुनेराश्रमपदम् ॥ ९४ ॥ अपि चास्मिन् चतुरब्धिपानचेष्टादृष्टपिपासे मुनावुदयमाने । पाययितुमिवात्मानं विशुध्य सज्जीभवन्त्यापः ॥ ९५ ॥ सुग्रीवः-(सस्मितम्।) ध्रुवमिह चतुरम्भोनिधिरचितापोशानकर्मणि मुनीन्द्रे । भक्ष्यमन्यानि किमपि चकम्पिरे सप्तभुवनानि ॥ ९६ ॥ ग्रहः । निःस्यन्दोऽविच्छेदेन प्रवृत्तिः । रमयतीति । अयं मलयाचलो रमयति । मामिति शेषः । अन्मान्मलयपर्वतादुपनमता आगच्छता पवनेन करणेन मानिनीनां प्रबोधः सखीभिरदुष्करः सुखसाध्यः । खलु निश्चितम् । दयितविनये वल्लभनम्रतायां कूटेऽसत्ये साक्षिणीभिः । स्वपाणीति । पुरोऽग्रे लोपामुद्रासहचरमुनेरगस्त्यस्य एतदपरमाश्रमस्थानम् । अस्तीति शेषः । आपीतोऽनन्तरमुज्झितस्त्यक्तो जलधिः समुद्रो येन तस्य । स्वपाणिप्राग्भारेण प्रबलमत्यन्तविस्तीर्णमत एवोत्तानं गाधं यत्सलिलं तत्र खयं दृष्टो यः क्रीडन् तिमिनिवहस्तेन लग्नां संवद्धां घृणामिव दधानस्य । तथा च मत्स्यादिवृणयैव पीतस्याब्धेरुद्गिरणमगस्त्येन कृतमिति भावः । चतुरब्धीति । मुनावगस्त्ये । अगस्त्योदये स्वभावादेव जलं निर्मलं भवति । तत्रोत्प्रेक्षते-आत्मानं पाययितुमिवेति । उत्प्रेक्षायामिवशब्दः। ध्रुवमिति । अस्मिन्मुनीन्द्रे चतु:समुद्रेण रचितापोशानकर्मणि सति किमप्यनिर्वचनीयं यथा स्यादेवं भक्ष्यमन्यानि सप्तभुवनानि चकम्पिरे कम्पितानि । तथा च यस्यास्य चतु:समुद्रेण भोजनारम्भचुलकरूपमापोशानं वृत्तं तस्य किं भक्ष्यं भविष्यति । तथा चास्मान् किं नु भक्षयिष्यतीति भावः । आत्मानं भक्ष्यं मन्यते भक्ष्यमन्यः । 'आत्ममाने खश्च' इति खश् । मुम् । रामदेव इति नाट्य १. 'अन्यतः'. २. 'विशुद्धसज्जी-'; 'विशुद्धिसज्जी-'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331