Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 303
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २९६ काव्यमाला | रामः -- ( स्मित्वा ।) आं मैथिलि, आम् । इहैव रोहणगिरेरुपत्यकायां द्वितीयमायतनं मुनेर्लोपामुद्रावल्लभस्य । स तत्रभवान् अपि च । Acharya Shri Kailassagarsuri Gyanmandir बृहत्पात्रप्राप्त्या विततजलमम्भोधिमुदरे दधावषाह्यं किल कलशजन्मा कुलपतिः । यमाराध्यन्विन्ध्याचल शिखरशोथैक भिषजं विवखानाश्वीनं गगनमैविरोधात्कलयति ॥ ८८ ॥ निपीते येनाब्धौ स्तिमितगुरुभिः पक्षपटलैः प्रयत्नादुड्डीय प्रतिपदमपव्यस्तपतिताः । विशन्तः कौलीरं कुहरमशरण्याः शिखरिणः क्षणं दृष्टास्तस्य स्तुतिषु न गिरां साहसरसः ॥ ८९ ॥ खादतीति ध्वनिः । रोहणः पर्वतभेदः । 'उपत्यकाद्रेरासन्ना भूमिः' इत्यमरः । आयतनं देवतागृहम् । 'चैत्यमायतनं तुल्ये' इत्यमरः । लोपामुद्रागस्त्यपत्नी । बृहदिति । कलशजन्मागस्त्यः अम्भोधिमुदरे दधाविति संबन्धः । वृहत्पात्रस्य महायोग्यस्य प्राप्त्या विस्तीर्ण जलं यस्य तम् । यमगस्त्यमाराध्यन् रविराकाशमाश्वीनमधेने काहगम्यं कलयति जानाति करोति वा | अविरोधात् निर्विघ्नमित्यर्थः । विन्ध्याचलशिखरस्य यः शोथो रोगभेदः अकस्मादङ्गवृद्धिः शोथनान्नैव प्रसिद्धस्तस्य भिषजं वैद्यम् । तत्प्रतीकारकर्तृत्त्वात् । कथेयमतिप्रसिद्धैव । इह आराध्यन्नित्यत्र कथं सकर्मता, इयनोऽकर्मके विधीयमानत्वात् इति चेत्, न । तत्राकर्मकादित्यस्य प्रायिकत्वात् । एवंविधप्रयोगस्य बहुशो दर्शनात् । ' प्रयोगमूला हि पाणिनिस्मृतिः' इति वचनादित्यवधेयम् । अश्वेन यदेकाहेन गम्यते तदाश्वीनम् | 'अश्वस्यैकाहगमः' इति खञ् । निपीत इति । तस्यागस्त्यस्य स्तुतिषु गिरां साहसरसो न । अपि तु साहसरस एव । शिरवालने नकारः । तद्गुणा विशिष्य वक्तुं न शक्यन्त इति भावः । येनागस्त्येन समुद्रे पीते तत्रस्थाः शिखरिणो मैनाकादयः पर्वताः कौलीरः कुलीरः कर्कटस्तत्संबन्धि कुहरं विवरं विशन्तः सन्तः क्षणं दृष्टाः । जनैरिति शेषः । स्तिमितमामत एव गुरुभिरतिभारैः पक्षपटलैर्यतः अतः प्रयत्नात्कष्टादुड्डीय ऊर्ध्वं गत्वा प्रतिपदं पदे पदे अपव्यस्ता व्याकुलाः सन्तः पतिताः । शरण्यो रक्षिता स न विद्यते येषां ते । शृङ्गार एव सार्वभौमश्चक्रवर्ती राजा । १. 'इह हि ' . २. 'गाधं' ३ 'अधिरोहन् '. ४. 'व्रजन्तः ', For Private and Personal Use Only

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331