Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 309
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०२ काव्यमाला। विभीषणः—(दक्षिणतो दर्शयन् ।) देव, प्रणम्यतामयमन्ध्रविषयलक्ष्म्याः सप्तगोदावरहारकलापैकनायको भगवान्भीमेश्वरः । अयं हि तत्कालारभटीविजृम्भणपरित्रासादिव श्रृंश्यता वामार्धेन तदेकशेषचरणं बिभ्रद्वपुभैरवम् । तुल्यं चास्थिभुजंगभूषणमसौ भोगीन्द्रकङ्कालकै बिभ्राणः परमेश्वरो विजयते कल्पान्तकान्तिकः ।। १०३ ॥ रामः--(कृताञ्जलिः ।) नृत्यारम्भपरित्रसद्दिरिसुतारिक्तार्थसंपूर्तये नियूंढभ्रमिविभ्रमाय जगतामीशाय तुभ्यं नमः । शीम् । केशिकीनान्नी वृत्ति विभ्रतीं दधानाम् । सौरभं मनोहरता ख्यातिश्च सौगन्ध्यं वा । तत्प्रकाशिनीम् । रीतिलक्षणं सरस्वतीकण्ठाभरणे-'वैदर्भादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः । ऋ गताविति धातोः स व्युत्पत्त्या रीतिरिष्यते ॥ वैदर्भी साथ पाञ्चाली गौडीयावन्तिका तथा । लाटीया मागधी चेति रीतिः घोढा निगद्यते ॥' तेषु च--'अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता । विपञ्चीवरसौभाग्या वैदर्भी रीतिरिष्यते ॥ इति । वृत्तिलक्षणं तु तत्रैव-'या विकासेऽथ विक्षेपे संकोचे विस्तरे तथा। चेतसो वर्तयित्री स्यात्सा वृत्तिः सापि षडिधा ॥ कैशिक्यारभटी चैव भारती सात्वती परा । मध्यमारभटी चैव तथा मध्यमकैशिकी ॥ सुकुमारार्थसंदर्भा कैशिकी तासु कथ्यते ।' अन्ध्रविषयोऽन्ध्रनामा देशः । गोदावों नदीविशेषाः । सप्तानां गोदावरीणां समाहारः सप्तगोदावरम् । अच् समासान्तः पञ्चनदवत् । नायकः प्रधानमणिः खामी च । भीमनामा ईश्वरो महादेवः । तत्कालेति । अयं परमेश्वरो विजयते । कीदृशः । तत्काले नृत्यकाले । आरभटी आरम्भः नृत्यविशेषो वा । आरभटीवृत्तिमयत्वात् । तस्या विजृम्भणं वृद्धिस्तद्भयादिव भ्रश्यता अपगतेन वामार्धन गौरीरूपेण तस्यैकशेषेण चरणं यत्र तादृशं भैरवशरीरं दधानः । अस्थिरूपस्य भुजंगरूपस्य च भूषणस्य रसदयं तुल्यं विभ्राणः । कैः। सर्पराजाङ्गास्थिभिः एकेनैव भोगीन्द्रकङ्कालकेन रसद्वयावादमनुभवति । प्रलये वासुक्यादीनां कङ्कालमात्रं तिष्ठतीति भावः । प्रलयकाले कर्माधिकृतः । 'नियुद्धयुद्धसंस्फोटविद्रवादिभिरन्विता । विज्ञेयारभटी वृत्तिरुद्धतैः पुरुषैः कृता ॥ कपटानृतदम्भेषु वञ्चनास्कन्दयोस्तथा । समुत्फालेन्द्रजालादौ सदा योज्येयमायकैः ॥' इति संगीतसर्वस्वम् । 'कङ्कालोऽस्थि शरीरस्य' इत्यमरः । नृत्यति । रिक्तं तुच्छम् । संपूर्तिभरणम् । नियूंढः समाप्तो भ्रमिर्मण्डलिकया भ्रमणं तेन विभ्रमो विलासो येन तस्मै । गौर्या भ्रमिभयात्त्यक्तं स्वशरीरं दृष्ट्वा भ्रमिविभ्रमः १. 'सप्तगोदावरी'. २. 'भ्राम्यता'. ३. 'त्यक्तार्ध-'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331