Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
७ अङ्कः]
www.kobatirth.org
अनर्घराघवम् ।
Acharya Shri Kailassagarsuri Gyanmandir
३०३
यश्चूडाभुजगेश्वरप्रभृतिभिस्तादृग्भ्रमन्तीर्दिशः पश्यद्भिर्भ्रमघूर्णमाननयनैः शान्तोऽपि न श्रदधे ॥ १०४ ॥
अपि च ।
क्रीडानटस्य प्रलयान्धकारैः कण्ठे निपीते तव नीलकण्ठ । पृथक्कबन्धं पृथगुत्तमाङ्गं नृत्यद्भयदक्षत कालरात्रिः ॥ १०५ ॥ (सर्वे नमन्ति ।)
रामः - ( अन्यतो दर्शयन् ) देवि, द्रविड मण्डलमौलिमण्डनमाणिक्यमणिस्तबकमिदं काञ्चीनामधेयमायतनं मीनकेतनस्य । (सीतामपवार्य) इह हि स्वेदजलपिच्छिलाभिस्तनुभिर्यूनां च शिथिलमा श्लेषम् । विपुलं पुलकशलाकापटलं झटिति प्रतिकरोति ॥ १०६ ॥
अपि च ।
अभिमुखपतयालुभिर्ललाटश्रमसलिलैरवधूतपत्र लेखः ।
कथयति पुरुषायितं बधूनां मृदितहिमद्युतिनिर्मलः कपोलः ॥ १०७ ॥ सुग्रीवः - ( वामतो दर्शयन् ।) इयमितः शृङ्गारदेवतागर्भगृहमवन्तिविपयसीमन्तमौक्तिकमुज्जयिनी नाम राजधानी । इह हि
For Private and Personal Use Only
परित्यक्त इति भावः । यस्वं श्रान्तोऽपि नृत्यनिवृत्तोऽपि नाट्येनात्यन्तघूर्णमाननयनैश्थूडास्थित सपेंशाद्यैर्न श्रद्दधे न निर्णीतः । अधुनापि नृत्यतीत्यवगतमिति भावः । कर्मणि लिट् । तादृगतिशयितं भ्रमन्तीर्थमणं कुर्वतीर्दिशः पश्यद्भिः । क्रीडेति । क्रीडार्थ नटो हरः । प्रलये अन्धकारैर्निपीते आच्छादिते । कबन्धः शिरःशून्यकायः । उत्तमाङ्ग मस्तकम् । ‘उत्तमाङ्गं शिरः शीर्षम्' इत्यमरः । ऐक्षत पश्यति स्म । 'ईक्ष दर्शने' । लङ् । कालरात्रिर्महाभैरवी कण्टस्थितकालकूटत्वाद्भिन्नमेवोत्तमाङ्गं कबन्धं ददर्शेति वाक्यार्थः । द्रविडनामा देश: । आयतनं स्थानम् । स्वेदेति । यूनां स्त्रीपुंसानाम् । युवा च युवती च 'पुमान्स्त्रिया' इत्येकशेषः । शिथिलं श्लथं आश्लेषमालिङ्गनं पुलक एवं शलाका तत्पटलं कर्तृ शीघ्रं प्रतिकरोति । स्वेदजलपिच्छिले शरीरे श्रथमालिङ्गनं रोमाञ्चः स्थिरीकरोतीत्यर्थः । अभिमुखेति । पतयालुभिः पतनशीलैः । ' स्पृहिगृहि-' इत्यालुच् । ‘अयामन्ता -' इत्ययादेश: । पुरुषायितं विपरीतरतम् । विपरीतरते स्त्रिया अधोमुख्या घर्मस्याभिमुखं पतनात्कपोलपत्र लेखापनयः । मृदिता शुद्धा । धौतेति यावत् । हिमस्य युतिश्छविस्तद्वन्निर्मलः । यद्वा विशुद्धो यो हिमद्युतिश्चन्द्रस्तद्वन्निर्मलः ।
१. ‘मौलिमाणिक्य स्तबकम्' २. 'हिमद्युतिदुर्मनाः' ३ ' इह हि' इति पुस्तकान्तरे
नास्ति.

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331