Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 313
________________ Shri Mahavir Jain Aradhana Kendra ३०६ www.kobatirth.org काव्यमाला | Acharya Shri Kailassagarsuri Gyanmandir राम:- ( सविमर्शम् ।) अस्य हि भगवतः बाणी भूतपुराणपुरुषधृतिप्रत्याशया धाविते विद्राति स्फुरदाशुशुक्षणिकणक्लान्ते शकुन्तेश्वरे । गुणव्याकृष्टवाणासन नम्रोन्नम्रभुजंगपुंगव क्षिप्तास्त्रस्य पुरद्रुहो विजयते संधानसीमाश्रमः ॥ ११४ ॥ (अन्यतो दर्शयन् 1) इयं च कैलचुरिकुलनरेन्द्रसाधारणाग्रमहिषी माहिष्मती नाम चेदिमण्डलमुण्डमाला नगरी । इह हि आश्लेषचुम्बन रतोत्सवकौतुकादिक्रीडादुरोदरपणप्रतिभूरनङ्गः । भोगैस्तु यद्यपि जये च पराजये च यूनोर्मनस्तदपि वाञ्छति जेतुमेव ॥ ११५ ॥ भोक्तुमिच्छा । विगतः कालो दिनरूपो यत्र स विकालः तद्भवो विकालिकः । स चायं ग्रासश्चेति विकालिकग्रास: 'विआरी' इति यत्प्रसिद्धिः । वाणीभूतेति । परहो महेशस्य संधानं शरसंयोजनं तदेव सीमा अवधिर्यस्य तादृशः श्रमः परिश्रमो विजयत इत्यन्वयः । पुरद्रुह इति पदेन पुरनामक दैत्यनाशाय संधानं कृतमित्यर्थप्राप्तिनिमित्तमुपन्यासः । कीदृशस्य | बाणीभूतः शरीभूतो यः पुराणपुरुषो विष्णुस्तस्य धृतिप्रत्याशया धारणेच्छया धाविते चलिते । विष्णोर्गरुडवाहनत्वात् । अनन्तरं महेशस्य यो नेत्रजो वह्निकणरतेन क्लान्ते क्लिने । अत एव शकुन्तेश्वरे गरुडे विद्राति अपगच्छति सति संनिहिते गरुडे भयान्नम्रो नतः, अपगते तस्मिन् भयाभावादुन्नम्र उगतो यो भुजंगपुंगवः सर्पराजो वासुकिः स एव गुणः प्रत्यश्चिका तेन विशेषेणाकृष्टं यद्वागासनं धनुस्तेन क्षिप्तं प्रेरितमस्त्रं बाणो येन तस्य I तथा च गरुडकृतनम्रोन्नम्रनानावस्थवासुकिरूपगुणाकर्षणे संधानश्रम इति भावः । 'वह्निः शिखावानाशुशुक्षणिः' इत्यमरः । त्रिपुरदाहे विष्णुर्बाणो वृत्त इति पुराणवार्ता | कलचुरिकुलं 'करचुरि' इति प्रसिद्ध पश्चिमदेशे क्षत्रियकुलम् । अग्रमहिषी ज्येष्टमहादेवी चेति नगरीविशेषणम् । तत्कुलजनरेन्द्राण माहिष्मत्यामेवावस्थानात्साधारणतेति । पुनः कीदृशी नगरी । चेदिमण्डलस्य चेदिनामकराष्ट्रस्य मुण्डमाला शिरोलंकार विशेष: 'मुण्डवारी' इति प्रसिद्धा । इह हीति । इह नगर्याम् । क्रीडादुरोदरो विनोदद्यूतम् । 'दुरोदरो द्यूतकरे पणे द्यूते दुरोदरम्' इत्यमरः । पणः ‘पाट' इति ख्यातः । इहाश्लेपादीनां नानारूपतया पणस्य चैकरूपतया वचनभेदेनापि सामानाधिकरण्येनान्वयः । प्रतिभूर्लग्नकः 'सहिआर' इति ख्यातः । यद्यपि जये च पराजये चोभयथैव संभोग ( उपभोग ) इत्यर्थः । तदपि तथापीत्यर्थः । यूनोरिति १. ‘गति -'. २. 'पतङ्गेश्वरे'. ३. 'करचुलि - ४ 'भोगस्तु यद्यपि जयेऽपजये च तुल्यो'; ' भोगः स यद्यपि जये विजयेऽपि तुल्यो . For Private and Personal Use Only

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331