Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 311
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०४ काव्यमाला । कमितुरभिसृत्वरीणां गौराङ्गीणामिहेन्दुगौरीषु । उड्डयमानानामिव रजनिषु परमीक्ष्यते छाया ॥ १०८।। अपि च। अधस्तात्सौधानामिह हि चरतामिन्दुकिरणा न्धनोदञ्चच्चञ्चपुटनिहितनेत्रा युवतयः । चकोराणां ज्योत्स्नारसकुतुपकौतूहलकृता मुदीक्षन्ते नश्यत्तिमिरविशदाभोगमुदरम् ॥ १०९ ॥ अपि च । इह युवतिवदनकान्तिभिराप्यायिततुन्दपरिमृजः शेते । भुक्तापभुक्तहिमरुचिमरीचिरन्तःपुरचकोरः ॥ ११० ॥ विभीषणः-इहैवायमलकायाः शाखानगरगौरवभाजि त्रिपुरदहनाधिष्ठानप्रतिष्ठो भगवान्महाकालनाथः । अयं हि उद्दामभ्रमिवेगविस्तृतजटावल्लीप्रणालीपत स्वर्गङ्गाजलदण्डिकावलयितं निर्माय तत्पञ्जरम् । शृङ्गारदेवता कंदर्पः । गर्भगृहं मध्यगृहं 'गभहर' इति ख्यातम् । अवन्तिर्देशविशेषः । सीमन्तः केशरचनारेखा । गर्भगृहं मौक्तिकमिति चोज्जयिन्या विशेषणम् । अजहल्लिङ्गतयान्वयः । कमितुरिति । परंशब्दो भिन्नक्रमश्छायाशब्दानन्तरं द्रष्टव्यः । तेन इह नगर्यामिन्दुगौरीषु चन्द्रधवलासु रात्रिषु कमितुः कामुकस्य कृते अभिसृत्वरीणामभिसरणशीलानां गौराङ्गीणां छायैव परमीक्ष्यते दृश्यते । जनैरिति शेषः । न तु शरीरम् । तासां गौराङ्गीत्वात् । इति परंशब्दार्थः । उड्डयमानानां बकादीनां यथाधश्छाया दृश्यते तथेत्यर्थः । गौरमेवाझं तद्देशस्त्रीणामिति भावः । अधस्तादिति । युवतयश्चकोराणामुदरमीक्षन्ते पश्यन्ति । कीदृशानाम् । ज्योत्नैव रसः पारदस्तस्य यः कुतुपश्चर्मघट: 'कुरुआ' इति ख्यातः तस्य कौतुककारिणाम् । 'कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान्' इत्यमरः । सौधानामधस्तादिन्दुकिरणान् चरताम् । कीदृशमुदरम् । ज्योत्स्नापा. नानश्यद्यत्तिमिरमन्धकारस्तेन विशदो धवल आभोगो यत्र तादृशम् । घनं वारं वारमुदश्च द्विकसद्यच्चपुटं तत्र निहितं नेत्रं याभिस्ताः । अधस्तादिति 'अस्ताति च' इत्यस्तातिप्रत्ययः । इह युवतीति । आप्यायितः स्फीतः । तुन्दपरिमृजोऽलसः । 'तुन्दशोकयोः परिमृजापनुदोः' इत्यालस्ये कः । भुक्तापभुक्तं भुक्तमपभुक्तं लक्तम् । तथा चार्धभुक्तमित्यर्थः । अलका कुबेरनगरी । मुख्यनगरावयवभूतं नगरं शाखानगरम् । तस्य गौरवभाजि तुल्ये । त्रिपुरदहनो हरस्तस्याधिष्टानं साक्षादवस्थानम् । उद्दामेति । जटावल्लयेव प्रणाली जलनिर्गमपथः 'पनारी' इति प्रसिद्धः । जलमेव दण्डिका काष्ठिका १. 'चञ्चपथ-'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331