Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः]
अनर्घराघवम् । यद्धारावलितैन शाखिभिरपि त्वत्पालितैर्मा तथा
दृष्ट्वा कन्दलितं न केकिभिरपि प्रारम्भि संगीतकम् ॥१०॥ सीता-(मन्युगद्गदकण्ठग्रन्धिलखरा पुष्पकं प्रति 1) विमाणराअ, सीदमि । ण दलदि जेव वज्जम मे हिअअम् । तथा वि तुवरेहि । एसा अन्तरीअदु दण्डआरप्णविच्छोली ।
रामः-(विमानवेगनाटितकेन सीतां प्रति ।) देवि, इदमत्रे महाराष्ट्रमण्डलैकमण्डनं कुण्डिनं नाम नगरम् । इह हि
अनन्यक्षुण्णश्रीमलयवनजन्मायमनिलो
निपीय खेदाम्बु स्मरमकरसंभुक्तविभवम् । विदर्भीणां भूरिप्रियतमपरीरम्भरभस
प्रसङ्गादङ्गानि द्विगुणपुलकसञ्जि तनुते ॥ १०१ ॥ किं च
बिभ्रंती कैशिकी वृत्तिं सौरभोद्गारिणी गिरः।
दूराध्वानोऽपि कवयो यस्य रीतिमुपासते ।। १०२ ॥ दृष्टेत्यर्थः । यद्धारावलितैर्मेघमालाधारासंवर्धितैः शाखिभिरपि न कन्दलितं न नवपल्लवितम् । कन्दलं नवपल्लवः । तस्य तारकादिवादितच् । 'कन्दलं स्यात्पल्लवे च नवाडरे' इति विश्वः । केकिभिर्मयूरैरपि जलधरदर्शनादपि संगीतं गीतनृत्यादि न प्रारम्भि न प्रारब्धम् । कर्मणि चिण् । मन्युर्दैन्यम् । उपताप इति यावत् । ग्रन्थिलो ग्रन्थिमान् । सिध्मादित्वाल्लच् । विमानेति । 'विमानराज, सीतास्मि । न दलत्येव वज्रमयं मे हृदयम् । तथापि वरख । एषा अन्तरीयतां दण्डकारण्यपतिः' [इति च्छाया। इह सीतास्मीत्यनेन शब्दच्छलात् यथा लागलपद्धतिश्चिरकालेन शोषणात्कठिना तथाहमप्यस्मीति ध्वनितम् । त्वरख खरया चल । अन्तरीयतामतिक्रम्यताम् । विच्छोली पतिरिति देशी । महाराष्ट्रो देशविशेषः । मण्डनमलंकरणम् । अनन्येति । अनन्यक्षुण्णेत्यत्र मलयपर्वतात् । प्रथमं तद्देशसंबन्ध एव पवनस्येत्याशयः । श्रीः संपत्तिः । स्मरस्य कामस्य चिह्नरूपो मकरस्तेन संभुक्त उपभुक्तो विभवः प्रभावो यस्य तत् । मकरो जलजन्तुतया जलमत्यर्थ पिबति । इह तु स्वेदाम्बु तेन प्रथमं पीतमिति भावः । विदर्भाणां विदर्भस्त्रीणाम् । भूरि प्रचुरम् । परीरम्भ आलिङ्गनम् । द्विगुणा पुलकस्रक येषु तानि । स्रक् माला । बिभ्रतीमिति । यस्य महाराष्ट्रदेशस्य गिरो वाण्या रीतिं वैदर्भानाम्नी कवयो दूरस्था अप्युपासते आश्रयन्ते । कीट
१. 'मन्यूत्पीडगद्गद-'. २. 'देवि' इति पुस्तकान्तरे नास्ति. ३. 'विभ्रतः'. ४. 'धारालुलितैः'; 'धाराकुलितैः'.
For Private and Personal Use Only

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331