Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३००
www.kobatirth.org
काव्यमाला |
सीता - ( स्मयमाना कपोतहस्तं कृत्वा ।) भअवदीओ जणट्टाणदेवदाओ,
एसा वो परिचारिआ जाणई पणमदि ।
रामः - (अन्यतो दर्शयन् ।) देवि, बन्दख भगवतीमितो गोदावरीम् ।
(जनान्तिकम् ।)
एतस्याः पुलिनोपकण्ठफलिनी कुञ्जोदरेषु स्रजं कृत्वा किंशुककोरकैर करजक्रीडासहिष्णुस्तने । दत्त्वा वक्षसि ते मयि प्रहसति प्रौढापराधे तदा कौमारत्रतभङ्गरोषितमपि स्मेरं तवासीन्मुखम् ॥ ९९ ॥ (सीता सलज्जस्मितं मुखमवनमयति, नमति च गोदावरीम् ।) रामः — (परिवृत्यावलोकितकेन सखेदम् ।) देवि',
अस्मिन्माल्यवतस्तटीपरिसरे कादम्बिनीडम्बरः
स स्थूलंकरणो मदश्रुपयसामासीदवर्षन्नपि ।
Acharya Shri Kailassagarsuri Gyanmandir
तथा च संगीत सर्वस्वम्- 'पार्श्वद्वयसमा श्लेषात्कपोतः सर्वशीर्षके । विनयोपगमे शीते भये संभाषणे गुरोः ॥ वक्षःस्थलगतो ह्येष कल्पितस्तु कपोतवत् ।' इति । भअवदीओ इति । 'भगवत्यो जनस्थानदेवताः, एषा वः परिचारिका जानकी प्रणमति' [इति च्छाया ।] इह वो युष्माकम् । परिचारिका परिचारकर्त्री । एतस्या इति । एतस्या गोदावर्याः । प्रवाहापचये जलमध्ये जलादुत्थितो भूभागः पुलिनम् । 'तोयोत्थितं तत्पुलिनम्' इत्यमरः । उपकण्ठः समीपम् । 'उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्' इत्यमरः । फलिनी प्रियंगुवृक्षः । 'प्रियंगुः फलिनी फली' इत्यमरः । उदरं मध्यम् । किंशुककोरकैः पलाशकलिकाभिः । 'पलाशे किंशुकः पर्णः' इत्यमरः । ' कलिका कोरकः पुमान्' इत्यपि । किंशुककोरको हि वको नखक्षताकारो भवतीति भावः । वक्षसि कीदृशे । करजस्य नखस्य क्रीडायाः सहिष्णू करजक्रीडा सहिष्णू, न तादृशौ स्तनौ यत्र तदकरजक्रीडासहिष्णुस्तनम् । तस्मिन् । दत्त्वा वक्षसीति यथेयं तव स्तनोपरि किंशुकमाला तथा ममाप्यत्र नखक्षतानि शोभां धारयिष्यन्तीति भावः । कौमारवतं नवोडाद्यवस्था तस्य भङ्गो नाशस्तेन रोषितमभि । अपिर्विरोधाभासाय । व्रतभङ्गादेव प्रौढापराधे मयीति भावः । स्मेरं सहासम् । अस्मिन्निति । माल्यवतः पर्वतविशेषस्य परिसरे समीपभुवि । ' पर्यन्तभूः परिसरः' इत्यमरः । कादम्बिनी मेघमाला तस्या डम्बर आभोगः अवर्षन्नपि मदश्रपयसां स्थूलंकरणः स्थूलं विपुलं क्रियते येन तादृश आसीदिति संबन्धः । तथा च त्वद्विरहवारिधिममेन मया तथा रुदितं यथावर्षत्रपि मेघो मदश्रुजलस्य विपुलताकारणं वर्षनिवासीदिति भावः । मां तथा दृष्ट्वा । रुदन्तं
१. ' मुखमानम्य गोदावरीं नमति'. २. 'देव' इति पुस्तकान्तरे नास्ति.
For Private and Personal Use Only

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331