Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 306
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ अङ्कः] अनर्घराघवम् । २९९ (सर्वतोऽविलोक्य सहर्षाद्भुतम् ।) अहो चिरेणाद्य चतुर्दशलोकैकदण्डधरे धर्मासनाधिकारिणि रामदेवे दण्डकारण्यगृहमेधिनां तपोधनानामृद्धयः । राम:-(सलजस्मितं विमानवेगनाटितकेनाधोऽवलोक्य ।) कथं हिरण्यहरिणविहारकान्तारस्थलीनामुपरि प्रतिष्ठामहे । सुग्रीवः-(सोपहासम् ।) इयं सा मारीचशरीरोपहाररक्षितात्मनो दशकण्ठस्य कपटभिक्षुवेषविडम्बनाडम्बरैकमर्मज्ञा पञ्चवटी । ( सादरं च ।) विश्वामित्रमखद्विषे च वपुषा चित्रेण पत्युर्मुखा___दप्याकृष्टविदेहराजतनयानेवारविन्दाय च । मारीचाय नमो नमः किमपरं यस्मै कुले रक्षसां द्वौ वारौ विभुनापि दाशरथिना चक्रे ततज्यं धनुः ॥ ९ ॥ (सीता लज्जते ।) रामः-(प्रस्रवणाचलं दर्शयन्सीतामपवार्य ।) देवि, नक्तं रत्नमयूखपाटलमिलत्काकोलकोलाहल त्रस्यत्कौशिकभुक्तकंदरतमाः सोऽयं गिरिः स्मर्यते । यत्राकृष्टकुचांशुके मयि रुपा वस्त्राय पत्राणि ते चिन्वन्त्यो वनदेवतास्तरुलतामुच्चैर्व्यधुः कौतुकात् ॥ ९८ ॥ भाषायां राजा देवपदवाच्यः । तथा चामर:--'राजा भट्टारको देवः' इति । गृहमेधिनां गृहस्थानाम् । दण्डकारण्यवासिनामित्यर्थः । प्रतिष्ठामहे गच्छामः । 'समवप्रविभ्यः स्थः' इति तङ् । मारीचशरीरोपहारेति मारीचद्वारा हरिणशरीरपरिग्राहणादिति भावः । विडम्बना कदर्थनं तस्या डम्बर आभोगः । मर्मज्ञा तत्त्वज्ञा । विश्वामित्रमखद्विप इति । अनेनातिबलवत्त्वं सूचितम् । मखो यज्ञः । वपुषा चित्रेण स्वर्णहरिणमयेनेति भावः । एतेनातिमनोहारिवं सूचितम् । पत्यू रामस्य । मारीचः शूर्पणखापुत्रो रावणभागिनेयः । द्वौ वारावित्यनेनातिमायावित्वं प्रकटितम् । तत्र विश्वामित्रमखरक्षायां तस्य नाशादित्येको वारः । सीतापहारावसरे द्वितीयो वारः । प्रस्रवणाचल: पर्वतभेदः । नक्तमिति । काकोलो द्रोणकाकः । 'डोडकौआ' इति प्रसिद्धः । 'द्रोणकाकस्तु काकोल:' इत्यमरः । रत्न कान्तिपाटलं च मिलकाकोलकोलाहलश्च ताभ्यां त्रस्यन् यः कौशिकः पेचकस्तेन भुक्तं सेवितं कंदरतमो यस्य तादृशः । श्रेतरक्तस्तु पाटलः' इत्यमरः । तथा च पर्वतीयरत्नकान्त्या दिवसभ्रमेण काकशब्देन च कौशिकस्य त्रास इति भावः । 'कौशिकोलकपेचकाः' इत्यमरः । उच्चैय॑धुरूर्व विहितवत्यः । उत्तोलितवल्य इति यावत् । अंशुकाकर्षणमेव कौतुकवीजम् । कपोतहस्तो हस्तबन्धविशेषः । १. 'विडम्बनैक-'. २. 'चित्रन्त्यो'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331