Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः] अनर्घराघवम् ।
२९७ अपि च यत्र शृङ्गारसार्वभौमस्य रत्नसिंहासने सिंहलद्वीपनाम्नि प्रदोषारम्भेषु
उदेप्यत्पीयूषद्युतिरुचिकणार्द्राः शशिमणि___ स्थलीनां पन्थानो घनचरणलाक्षालिपिभृतः । चकोरैरुड्डीनैर्झटिति कृतशङ्काः प्रतिपदं
__ पराञ्चः संचारानविनयवतीनां विवृणते ॥ ९० ॥ (अन्यतो दर्शयन् ।) इयमितो मौक्तिकीयानामपामाधारस्ताम्रपर्णी ।
शुक्तिकागर्भसंबन्धस्तम्भितास्तोयबिन्दवः ।
भ्रमन्ति सुभ्रुवामङ्कादङ्कमस्याः प्रसूतयः ॥ ९१॥ अपि च ।
युवतिकुचभोगकर्मभिरुद्भूतैः शुक्तिसंपुटधृतानि । दधतीह ताम्रपाः स्थिरकरकाभावमम्भांसि ।। ९२ ॥ सीता-अज्जउत्त, जेटेत्ति दक्खिण्णमत्तएण भअवदो साअरस्स भाईरहीपक्खपादो । पेम्मसव्वस्सणीसन्दो उण सहजसव्वङ्गमोत्तिआहरणरमणीआए तम्मपण्णीए लक्खीअदि । 'प्रदोषो रजनीमुखम्' इत्यमरः । उदेष्यदिति । चन्द्रकान्तस्थलीनां पन्थानः अविनयवतीनामभिसारिकाणां पराञ्चः प्रतीपान् पदन्यासान् विवृणते प्रकटयन्ति । कीदृशाः । उदेष्यन्नुदयं गमिष्यन् यश्चन्द्रस्तस्य दीप्तिलवैरााः। घना निबिडा या चरणानां लाक्षा तस्या लिपिमक्षरं धारयन्तः । उड्डीनैश्चकोरैः शीघ्रं कृता शङ्का यत्र । अर्थादभिसारिकाणाम् । ते । अभिसारिकाश्चलिता अपि मार्गे चकोरसंचाराच्चकिता व्याधुटिताश्च । तासां पदलाक्षाक्तवाटेन प्रतीपचरणन्यासः प्रकटित इति भावः । ताम्रपर्णी मुक्तोत्पत्तिनदी । आधारस्ताम्रपर्णीत्यजहल्लिङ्गतयान्वयः । शक्तिकेति । गर्भो मध्यम् । स्तम्भिताः पिण्डीभूताः । अस्यास्ताम्रपा अङ्कान्मध्यात् प्रसूतयो जाता जलबिन्दवो मुक्तारूपा युवतीनां कोडं भ्रमन्ति गच्छन्ति । युवतीति । युवतिकुचानां यानि भोगकर्माणि यैरदृष्टैः स्त्रीकुचभोगं प्राप्नुवन्ति तैरुद्भूतैः परिणतैर्हेतुभिर्निविडवर्षोपलवं यस्या जलानि दधति । 'वर्षापलस्तु करका' इत्यमरः । अजउत्तेति । 'आर्यपुत्र, ज्येष्टेति दाक्षिण्यमात्रकेण भगवतः सागरस्य भागीरथीपक्षपातः। प्रेमसर्वस्वनिःस्पन्दः पुनः सहजसर्वाङ्गमौक्तिकाभरणरमणीयायास्ताम्रपा लक्ष्यते' [इति च्छाया।] इह पक्षपातोऽनु१. 'यत्र' इति पुस्तकान्तरे नास्ति.. २. 'संभूत-'. ३. 'भजन्ति'. ४. 'ताम्रपाम्'.
अन० २६
For Private and Personal Use Only

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331