Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 301
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। रामः- (विहस्य।) देवि महाकुलक्षत्रियसंभवे, एवमेतत् । । सेतूपक्रमसंभ्रमाहृतगिरिप्रक्षेपवेगोच्छल निःशेषाम्बुपरिस्फुटोदरदरीगम्भीरिमा सागरः । चक्रे गोष्पदवद्विलचितवतोऽप्यन्तर्भयं मारुतेः पूर्णत्वादतिरिच्यते हि महतस्तुच्छस्य दुर्लङ्घयता ।। ८४ ॥ (नेपथ्ये।) देवें, त्वर्यतां त्वर्यताम् । संनिधत्ते खलु भगवद्वसिष्ठगृहीतो मङ्गल:भिषेकमुहूर्तः । रामः--(आकर्ण्य ।) कथर्मंयोध्यायाः प्रत्यावृत्तो मारुतिरस्मांस्त्वरयति । सीता-(सहर्षम् ।) अजउत्त, कधं अञ्जणाणन्दणो तुवरावेदि । ता भअवं पुप्फअ, अवणम । मेइणीसंणिहिदगअणमग्गेण गच्छहा । (अधोऽवलोक्य रामं प्रति ।) अजउत्त, किं उण एवं तरुणजीमूदसामले महीवलए महुमहणवच्छत्थले कोत्थुमकिरणत्थबअं विअ जलन्तं लक्खीअदि। . निदर्शनम्' [इति च्छाया।] इह निदर्शनं दृष्टान्तः । सेत्विति । उपक्रम आरम्भः । संभ्रमस्त्वरा । आहृत आनीतः । शैलपतनवेगादुच्छलदितस्ततो गच्छत् । परिस्फुटो व्यक्तः उदरमेव उरी केंदरा तस्या गम्भीरिमा गम्भीर्य यत्र तादृश: सागरो मारुतेह. नूमतोऽन्तर्भयं चक्रे । पूर्णत्वात् पूर्णदशातः । कीदृशस्य । गोष्पदं गोपदपरिमाणबिलं तद्वलचितवतोऽपि । 'गोष्पदं सेविते माने' इत्यमरः । 'गोष्पदं सेवितासेवितप्रमाणेषु' इति निपातनम् । उक्ते उपपत्तिमाह--हि यतः महतस्तुच्छस्यापि दुर्लङ्घयतातिरिच्यते अतिरिक्ता भवति । तुच्छ एव महादुर्लङ्घयो भवतीति भावः । अज्ज उत्तेति । 'आर्यपुत्र, कथमञ्जनानन्दनस्त्वरयति । तद्भगवन् पुष्पक, अवनम । मेदिनीसंनिहितगमनमार्गेण गच्छामः' [इति च्छाया।] इह अञ्जनानन्दनो हनूमान् । 'अञ्जना मरुतः सूनोजनन्यां च हलाहले' । अवनम अधो गच्छ । अजउत्तेति । 'आर्यपुत्र, किं पुनरेतत्तरुणजीमूतश्यामले महीवलये मधुमथनवक्षःस्थले कौस्तुभकिरणस्तवक इव ज्वललक्ष्यते' १. 'महाक्षत्रिय-'; 'महाक्षत्रियकुल-'. २. 'सेतुप्रक्रम'. ३. कौतुक. ४. 'देव, त्वर्यताम् । संनिधत्ते भगवान्वसिष्टः संगृहीतमङ्गला-'. ५. 'खलु' इति पुस्तकान्तरे नास्ति. ६. 'अयोध्यातः'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331