Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 299
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९२ काव्यमाला। (सीतां प्रति ।) अनेन रम्भोरु भवन्मुखेन तुषारभानोस्तुलया धृतस्य । ऊनस्य नूनं परिपूरणाय ताराः स्फुरन्ति प्रतिमानखण्डाः ॥ ८१ ।। किं चान्यदपि गोत्रे साक्षादजनि भगवानेष यत्पद्मयोनिः शय्योत्थायं यदखिलमहः प्रीणयन्ति द्विरेफान् । एकानां यद्दधति भगवत्युष्णभानौ च भक्ति __ तत्प्रापुस्ते सुतनु वदनौपम्यमम्भोरुहाणि ॥ ८२ ॥ सीता-(स्मेरावनतमुखी।) अजउत्त, कधं उण संपुण्णमण्डलमेरिसं चन्दमवमच्चिअ कलामेत्तं भअवदा भूदणाहेण चूडामणीकिदं आसी। रामः-(सैप्रहासम् ।) प्रिये जानकि, त्रयाणामपि जगतामुपजीव्योऽय. तस्य संकोचादतिदुःस्थितस्यात्यन्तासुस्थस्य विधेः स्रष्टुस्तच्छिल्पं कौशलं नोन्मीलितं न प्रकाशितम् । दयितामुखसमश्चन्द्रो नाभूदिति भावः । पद्मसंकोचे हेतुमाह-रोहिणीपरिवृढे कीदृशे । व्यक्तं स्फुटं यथा स्यादेवं जन्मसमय एव संबद्धामंशुच्छटां तेजोराशि वर्षति प्रकाशयति । तथा च चन्द्रकिरणसंबन्धादासनपद्मसंकोच इति भावः । अत ए. वात्मद्रोहिणि निजशत्रौ । आत्मना ब्रह्मणः पद्मसंकोचादात्मनोऽसंपूर्णतयात्मशत्रुत्वमिति भावः । रम्भा कदली तद्वदूरू यस्याः तादृशि हे कान्ते, भवत्या मुखं भवन्मुखम् । 'सर्वनानो वृत्तिमात्रे पुंवद्भावो वक्तव्यः' इति पुंवद्भावः । तुलया मानदण्डेन धृतस्य तुलितस्य । नूनमुत्प्रेक्षे । प्रतिमानं 'पडिमान' इति ख्यातम् । हिरण्यादेस्तुलनायां न्यूनस्य क्षुद्रप्रतिमानेन पूरणात्तुल्यता क्रियते यथा तथात्रापीति भावः । गोत्रे इति। हे सुतनु सीते, तत्तस्माद्धेतोरम्भोरुहाणि तव मुखसादृश्यं प्रापुः। यद्यस्मादेवां गोत्रे पद्मयोनिर्ब्रह्मा साक्षादजनि उत्पन्नः । शय्योत्थायं शय्याया उत्थाय । 'अपादाने परीप्सायाम्' इति णमुल् । परीप्सा त्वरा । अखिलं समस्तमहो दिनं व्याप्य भ्रमरान्प्रीणयन्ति प्रीतान्कुर्वन्ति । यच्चोष्णभानौ सूर्ये एकाग्रामेकचित्तां भक्ति सेवां विदधति । तथा च परोपकारात् नियतसूर्यभक्तेश्च पद्मानि त्वन्मुखसदृशानि जातानीति भावः । अहः इत्यत्र अत्यन्तसंयोगे द्वितीया। अजउत्तेति । 'आर्यपुत्र, कथं पुनः संपूर्णमण्डलमीदृशं चन्द्रमवमत्य कलामात्रं भगवता भूतनाथेन चूडामणीकृतमासीत् [इति च्छाया] इह अव १. 'तवाननेन'. २. 'चैतान्यपि'. ३. 'सप्रहासम्' इति पुस्तकान्तरे नास्ति. ४. 'लोकानाम्'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331