Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 300
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनर्घराघवम् । २९३ ममृतदीधितिः । यदि पुनः समग्रमेनं मौलिना पिनाकपाणिरधारयिष्यत्, अङ्ग शिवनिर्माल्यमंनुपभोग्य एवायमभविष्यत् । (सर्वे हसन्ति ।) रामः--किं च भवत्यापि मासप्रमितो दृश्यत एवायं पीयूषाश्रपणं जगत्रयदृशामालातलेखालवो विश्वोन्माथहुताशनस्य ककुभामुद्धाटनी कुञ्चिका। वीरेषु प्रथमा च पुष्पधनुषो रेखा मृगाक्षीमुख. श्रीणां च प्रतिराजबीजमधिकानन्दी नवश्चन्द्रमाः ॥ ८३ ॥ सीता-( अनुमोदमाना।) अज्जउत्त, परिपुण्णा गुणिणो जहिं कहिं पि सोहन्ति । खीणा उण सीसमाहरुहन्ति त्ति हरजडाचन्दो जेव्व पढमं णिदंसनम् । . मत्य लक्त्वा । भूतनाथेन शिवेन । समग्रं संपूर्णम् । पिनाकपाणिः शिवः । अधारयिष्यत् तद्धारणमकरिष्यत् । क्रियातिपत्तौ लङ् । अतिपत्तिः कुतोऽपि हेतोः क्रियाया अनिघ्पत्तिः । अङ्गशब्दः संबोधने वितर्के वा । निर्माल्यं पूजानन्तरं त्यक्तपुष्पम् । अजहल्लिङ्गत्वादन्वयः । शिवनिर्माल्यस्य धर्मशास्त्रेणोपभोगस्य निषेधात् । यद्यपि रामवचनस्यैव तापमानता तथापि सर्वे हसन्तीत्युक्तमतो हासानामन्ते पुनर्वचने वक्तुराकाङ्क्षायां राम इत्युक्तम् । क्वचित्पुस्तके तु राम इति नास्त्येव । किं चेत्यनेन समुच्चयवाचकेन तत्प्रकमस्य प्राप्तेः । व्युत्पत्तिस्तूभयरूपापि । मासं प्रमितो मासप्रमितः । अत्यन्तसंयोगे द्वि. तीया । 'अत्यन्तसंयोगे च' इति समासः । प्रमित इति प्रमातुमारब्धः । आदिकर्मणि क्तः। पीयूषेति । अयं नवचन्द्रमा दृश्यत इति मस्तकस्थेनान्वयः। कीदृशः । जगत्रयनेत्राणां पीयूषस्यामृतस्याश्रवणं स्थाली । विश्वः समस्त एव विरही तस्योन्माथी उन्मथनकर्ता कामस्तद्रूपहुताशनस्य कामानेः आलातलेखालवः । आलातमङ्गारस्तस्य लेखा पतिस्तस्या लवः कण: । ककुभां दिशामुद्धाटनी उद्वेलनकी कुञ्चिका । कपाटादिस्फोटनार्थ या क्रियते सा 'कुञ्चिआ' इति ख्याता। उद्घाटयतीत्युद्धाटनी। ‘ण्यासश्रन्थो युच्'। वीरेषु मध्ये कामस्य प्रथमा आद्या रेखा । गणनायां कठिन्या आद्या रेखा । प्रथमं ग. णनीयेत्यर्थः । नारीमुखशोभानां प्रतिपक्षो राजा प्रतिराजः। राजा चन्द्रोऽपि भण्यते। 'राजाहःसखिभ्यष्टच्' । तस्य बीजं कारणम् । पूर्ण एव चन्द्रः कविसंप्रदाये भण्यत इति भावः । सर्वत्राजहल्लिङ्गतयान्वयः । अजउत्तेति । 'आर्यपुत्र, परिपूर्णा गुणिनो यस्मिन्कस्मिन्नपि शोभन्ते । क्षीणाः पुनः शीर्षमारोहन्तीति हरजटाचन्द्र एव प्रथम १. 'अङ्ग' इति पुस्तकान्तरे नास्ति. २. 'अनुपयुक्तः'. ३. 'मासं प्रमितो'; 'मासं प्रति'. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331