________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९२
काव्यमाला। (सीतां प्रति ।)
अनेन रम्भोरु भवन्मुखेन तुषारभानोस्तुलया धृतस्य ।
ऊनस्य नूनं परिपूरणाय ताराः स्फुरन्ति प्रतिमानखण्डाः ॥ ८१ ।। किं चान्यदपि
गोत्रे साक्षादजनि भगवानेष यत्पद्मयोनिः
शय्योत्थायं यदखिलमहः प्रीणयन्ति द्विरेफान् । एकानां यद्दधति भगवत्युष्णभानौ च भक्ति __ तत्प्रापुस्ते सुतनु वदनौपम्यमम्भोरुहाणि ॥ ८२ ॥ सीता-(स्मेरावनतमुखी।) अजउत्त, कधं उण संपुण्णमण्डलमेरिसं चन्दमवमच्चिअ कलामेत्तं भअवदा भूदणाहेण चूडामणीकिदं आसी।
रामः-(सैप्रहासम् ।) प्रिये जानकि, त्रयाणामपि जगतामुपजीव्योऽय.
तस्य संकोचादतिदुःस्थितस्यात्यन्तासुस्थस्य विधेः स्रष्टुस्तच्छिल्पं कौशलं नोन्मीलितं न प्रकाशितम् । दयितामुखसमश्चन्द्रो नाभूदिति भावः । पद्मसंकोचे हेतुमाह-रोहिणीपरिवृढे कीदृशे । व्यक्तं स्फुटं यथा स्यादेवं जन्मसमय एव संबद्धामंशुच्छटां तेजोराशि वर्षति प्रकाशयति । तथा च चन्द्रकिरणसंबन्धादासनपद्मसंकोच इति भावः । अत ए. वात्मद्रोहिणि निजशत्रौ । आत्मना ब्रह्मणः पद्मसंकोचादात्मनोऽसंपूर्णतयात्मशत्रुत्वमिति भावः । रम्भा कदली तद्वदूरू यस्याः तादृशि हे कान्ते, भवत्या मुखं भवन्मुखम् । 'सर्वनानो वृत्तिमात्रे पुंवद्भावो वक्तव्यः' इति पुंवद्भावः । तुलया मानदण्डेन धृतस्य तुलितस्य । नूनमुत्प्रेक्षे । प्रतिमानं 'पडिमान' इति ख्यातम् । हिरण्यादेस्तुलनायां न्यूनस्य क्षुद्रप्रतिमानेन पूरणात्तुल्यता क्रियते यथा तथात्रापीति भावः । गोत्रे इति। हे सुतनु सीते, तत्तस्माद्धेतोरम्भोरुहाणि तव मुखसादृश्यं प्रापुः। यद्यस्मादेवां गोत्रे पद्मयोनिर्ब्रह्मा साक्षादजनि उत्पन्नः । शय्योत्थायं शय्याया उत्थाय । 'अपादाने परीप्सायाम्' इति णमुल् । परीप्सा त्वरा । अखिलं समस्तमहो दिनं व्याप्य भ्रमरान्प्रीणयन्ति प्रीतान्कुर्वन्ति । यच्चोष्णभानौ सूर्ये एकाग्रामेकचित्तां भक्ति सेवां विदधति । तथा च परोपकारात् नियतसूर्यभक्तेश्च पद्मानि त्वन्मुखसदृशानि जातानीति भावः । अहः इत्यत्र अत्यन्तसंयोगे द्वितीया। अजउत्तेति । 'आर्यपुत्र, कथं पुनः संपूर्णमण्डलमीदृशं चन्द्रमवमत्य कलामात्रं भगवता भूतनाथेन चूडामणीकृतमासीत् [इति च्छाया] इह अव
१. 'तवाननेन'. २. 'चैतान्यपि'. ३. 'सप्रहासम्' इति पुस्तकान्तरे नास्ति. ४. 'लोकानाम्'.
For Private and Personal Use Only