________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः] अनर्धराघवम् ।
२९१ ( विहस्य ।) भोगीन्द्रः प्रमदोत्तरङ्गमुरगीसंगीतगोष्ठीषु ते
कीर्ति देव शृणोतु विंशतिशती यच्चक्षुषां वर्तते । रक्ताभिः सुरसुन्दरीभिरभितो गीतां तु कर्णद्वयी
दुःस्थः श्रोप्यति नाम किं स हि सहस्राक्षो न चक्षुःश्रवाः ॥७९॥ रामः-(विलक्षस्मितेन विभीषणसूक्तमनुगृह्य चन्द्रं सीतामुखं च क्षणर्मालोक्य स्वगतम् ।)
आरब्धे दयितामुखप्रतिसमे निर्मातुमस्मिन्नपि
व्यक्तं जन्मसमानकालमिलितामंशुच्छटां वर्षति । आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः
संकोचादतिदुःस्थितस्य न विधेस्तच्छिल्पमुन्मीलितम् ।। ८० ।। स्तो यः कुण्डलरवस्य व्यासङ्गोऽन्तरायस्तादृशं यथा स्यादेवं मूर्ध्नः शिरांसि आधुन्वता कम्पयता । इह शिरसां सहस्रतया बहुवचनम् । कर्णाभावेन कुण्डलपरिधानाभावः । अत एव तज्जन्यशब्दाभावात्कीर्तेः मुखेन श्रवणमिति भावः । भोगीन्द्र इति । हे देव, तव कीर्ति भोगीन्द्रो वासुकिः शृणोतु श्रोतुं शक्नोतु । कुत्र । प्रमदो हर्षस्तेनोत्तरङ्गमुदूतातिशयं यथा स्यादेवं सीभिर्यत्संगीतं मिलिखा गानं तद्गोष्ठीषु सभासु । 'सभासंलापयोर्गोष्ठी' इति मेदिनीकरः । 'प्रमदसंमदो हर्षे' इत्यच्प्रत्ययान्तो निपातः । विंशतिशती सहस्रद्वयम् । वासुकेः सहस्रफणलात् चक्षुषां सहस्रद्वयम् । तस्य चक्षुःश्रवस्त्वात् । रक्ताभिरनुरक्ताभिरप्सरोभिर्गीतां पुनः कीर्ति सहस्राक्ष इन्द्रो द्विकर्णत्वारिक नाम श्रोष्यति । अपि तु न किमपि । हि यतः स इन्द्रः सहस्राक्षोऽपि न चक्षुःश्रवाः । तस्य न नेत्रेण श्रवणयोग्यतेत्यर्थः । आरब्ध इति । अस्मिन्रोहिणीपरिवृढे चन्द्रे दयिता सीता तन्मुखतुल्ये निमीतुमारब्धे सति पर्यत आसनं 'पालङ्क' इति ख्यातं तद्रूपं यत्पङ्केरुहं पद्म
१. 'विहस्य च'. २. केषुचिन्मूलपुस्तकेषु अन्नाच्छोकादग्रे 'अपि च, अद्य खर्गिवधूगणे गुणमय त्वकीर्तिमत्युज्ज्वलामुच्चैर्गायति निष्कलङ्किमदशामापत्स्यते चन्द्रमाः । गीताकर्णनमोदमुक्तयवसग्रासाभिलाषोऽधुना स्वामिनङ्कमृगः कियन्त्यपि दिनान्येतस्य वर्तिष्यते ॥ अपि च, गीयन्ते यदि पनगीभिरभितस्त्वकीर्तयस्तद्वयं तुष्टा एव परंतु चेतसि चमत्कारोऽयमारोहति । तासां तादृशभावभङ्गवलनासंस्थानसंदर्शिनि व्यालेन्द्र रसधूतमूर्धनि महीचक्रं पुनीम्यति ॥' इति श्लोकद्वयमधिकमस्ति. ३. 'सविलक्षस्मितम्'. ४. 'क्षणम्' इति पुस्तकान्तरे नास्ति. ५. 'स्वगतम्' इति पुस्तकान्तरे नास्ति. ६. 'दयितानन-'. ७. 'तचित्रमुन्मीलितम्', 'तच्छिल्पमुन्मीलति'.
For Private and Personal Use Only