________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९०
काव्यमाला ।
सीता - (सस्मितम् ।) जाणामि अज्जउत्तस्स कित्तिकन्तीहिं पडिस्पर्द्ध कदुअ पराजिदेण संपदि भअवदा हरिणङ्केण कलङ्कसंघदी विढत्ता । ( सर्वे हसन्ति । रामः स्मयते ।)
सीता- - ( रामं प्रति ।)
सारम्भं सिरिवच्छलञ्छणभु आपज्जत्थमन्थाअलक्खोभोच्छल्लिददुद्धसिन्धुलहरीगब्भच्छईसच्छअम् । को गायेदि ण दे रहू पहुणो अन्धारपक्खन्तरासंतुट्टन्तमिअङ्कमण्डलमलकुद्दामगोरं जसम् ॥ ७६ ॥ रामः- - ( सहर्षस्मितम् ।) अयि प्रिये प्रियवादिनि, चन्द्रलोकादपि परं पदमारोपयन्ति माम् । अमूरमृतबिन्दूनामनुप्रासास्तवोक्तयः ॥ ७७ ॥ विभीषणः - (सानुरागम् ।) अद्योर्वीतलमूलघर्षणवशादुन्मृष्टचूडामणि
श्रेणिश्रीपरिपीतपीवरतमः पूरे पुरे भोगिनाम् । कर्णाभाव निरस्त कुण्डलरव व्यासङ्गमाधुन्वता
मूर्ध्नः पन्नगपुंगवेन सुभगं त्वत्कीर्तिराकर्ण्यते ॥ ७८ ॥
'किंयत्तदेतेभ्यः परिमाणे चतुष्' । 'किमिदंभ्यां वो घः' । क्रियदिति सामान्योक्तौ क्रियाविशेषणे वा नपुंसकता । यद्यस्मान्महत्परिमाणायास्त्वत्कीर्तेः प्रतिगर्जति सदृशीभवति । 'स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति' इत्याद्युक्त्वा 'शब्दाः सादृश्यवाचका:' इति दण्डी । जाणामीति । 'जानाम्यार्यपुत्रस्य कीर्तिकान्तिभिः प्रतिस्पर्धा कृत्वा पराजितेन संप्रति भगवता हरिणाङ्केन कलङ्कसंहतिरर्जिता' [इति च्छाया] विढत्ता इति देशी । सारम्भमिति । 'सारम्भं श्रीवत्सलाञ्छनभुजापर्यस्तमन्थाचलक्षोभोच्छलितदुग्धसिन्धुलहरीगर्भच्छविसदृशम् । को गायति न ते रघूणां प्रभोरन्धकारपक्षान्तरासं त्रुट्यन्मृगाङ्कमण्डलखण्डोद्दामगौरं यशः ॥' [ इति च्छाया ।] ते तव यशः को न गायति । अपि तु सर्व एव । श्रीवत्सलाञ्छनो हरिस्तस्य बाहुभिः पर्यस्तः क्षिप्तो यो मन्थाचलस्तत्क्षोभादुच्छलितस्य दुग्धाम्बुधेर्लहरी तरङ्गः प्रवाहो वा तन्मध्यकान्तितुल्यम् । अन्तरा मध्यम् । मलक्कः खण्डः । मृगाङ्क खण्डवदुद्दामगौरमतिश्वेतम् । अनुप्रासाः सदृशाः । अद्येति । हे देव, भोगिनां पुरे पाताले पन्नगपुंगवेन वासुकिना सुभगं यथा स्यादेवं त्वत्कीर्तिराकर्ण्य ते श्रूयते इत्यन्वयः । पुरे कीदृशे । उवमूलस्य घर्षणेन उन्मृष्टा या चूडामणिश्रेणी तस्याः श्रिया कान्त्या परिपीतो नाशितो निविडान्धकारप्रवाहो यत्र तादृशे । कर्णाभावान्निर
For Private and Personal Use Only
*