________________
Shri Mahavir Jain Aradhana Kendra
७ अङ्कः ]
इदं चास्य
ऐनं च
www.kobatirth.org
अनर्घराघवम् ।
Acharya Shri Kailassagarsuri Gyanmandir
प्राचीनाचलचुम्बिचन्द्रमणिभिर्निर्व्यूढपाद्यं निजैनिर्यासैरुडुभिर्निजेन वपुषा दत्तार्घलाजाञ्जलि | अन्तः प्रौढकलङ्कतुच्छमभितः सान्द्रं परिस्तीर्यते विम्वादङ्कुरभननैशिकतमः संदोह मिन्दोर्महः ॥ ७२ ॥
मृगराजकरजभङ्गुर किंशुककलिकावतंसिकाः सुदृशः । भयसंकुचदक हरिणबलोज्वलमिन्दुमीक्षन्ते ॥ ७३ ॥ विभीषणः
इन्दोरेककलाया रुद्रेणोद्धृत्य मूर्धनि धृतायाः । स्थानमिव तुच्छमेतत्क्रलङ्करूपेण परिणमते ॥ ७४ ॥ ( विहस्य रामं प्रति ।)
रोदसीकूपमण्डूकः कियदेष प्रकाशते ।
चन्द्रमा यदयं देव त्वत्कीर्तेः प्रतिगर्जति ॥ ७५ ॥
२८९
कीदृशः । लोकचक्षुरिव । कीदृशम् । अवामा अकुटिला स्त्री तस्यां दक्षिणं दाक्षिण्यवत् । लिङ्गव्यत्ययेनान्वयः । अवामाविषये दक्षिण इत्यर्थः । ' मन्द्रस्तु गम्भीरे' इत्यमरः । 'ताल: कालक्रियामानम्' इति च । प्राचीनेति । इन्दोर्महस्तेजः कर्तृ अभितः सर्वत्र संभूय मिलित्वा विम्बान्मण्डलात्परिस्तीर्यते विस्तीर्यते । स्वमाच्छादनं करोतीत्यर्थः । कर्मकर्तरि लट् । कीदृशम् । प्राचीनपर्वताग्रस्थितचन्द्रकान्तैर्निर्व्यूढं कृतं पाद्यं पादार्थमुदकं यस्य तादृशम् । पुनः कीदृशम् । निजैनिर्यासैः सारभूतैः उडुभिस्ताराभिर्निजेन वपुषा स्वरूपेण दत्तोर्घो लाजाञ्जलिश्च यस्मै तत् । आत्मनार्घदानं ताराभिर्लाजाञ्जलिदानमिति क्रमः | योग्यत्वादन्वयः । आर्थेन क्रमेण शाब्दः क्रमो लङ्घयते । यथा अग्निहोत्रं जुहोति, यवागूं पचति, इत्यत्र । ताराणां शुभ्रवर्तुलत्वाभ्यां लाजत्वव्यपदेशः । अन्तर्भध्ये उपचितकलङ्केन तुच्छं शून्यम् । अङ्कुर एव भग्नो नैशिकतमः समूहो येन तत् । नैशिकं निशाभवम् । ‘निशाप्रदोषाभ्यां च' इति ठञ् । मृगेति । मृगराजः सिंहः । करजो नखः । तद्वद्भङ्गुरं कुटिलम् । सिंहनखभ्रमाद्भयम् । बहलमधिकम् । उज्ज्वलं दीप्तम् । इन्दोरिति । उद्धृत्य उत्पाट्य । परिणमते निष्पद्यते । कर्मव्यतिहारे तङ् । रोदसीति । द्यावापृथिव्योर्मध्य रोदसी । 'रोदश्च रोदसी चेति दिवि भूमौ पृथक्पृथक्' इत्यमरः । सैव कूपः तत्र मण्डूको भेक इव । एष चन्द्रः कियत् किंप्रमाणं प्रकाशत इत्यन्वयः ।
For Private and Personal Use Only
१. 'इदं चास्य' इत्यारभ्य 'मलकुद्दामगोरं जसम्' इत्यन्तः पाठः केषुचित्पुस्तकेषु 'सेतूपक्रम -' इत्यादिश्लोकादग्रे वर्तमानादनन्तरं वर्तते.
२. 'एवं च'.