________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
काव्यमाला।
अपि च ।
"तैः सर्वज्ञीभवदभिसृतानेत्रसिद्धाञ्जनैर्वा
नीरन्धैवी त्रिभुवनदृशामन्धपट्टैस्तमोभिः । - व्याप्तं पृथ्वीवलयमखिलं क्षालयन्नुच्छलद्भि
ज्योत्स्नाजालैरयमुदयते शर्वरीसार्वभौमः ॥ ७० ॥ अपि च जगतामनुग्रहाय
उदयति कलमन्द्रैः कण्ठतालैरलीनां
कुमुदमुकुलकेषु व्यञ्जयन्नङ्गहारान् । मदमुखरचकोरीतोषकर्मान्तिकोऽयं
तुहिनरुचिरधामा दक्षिणं लोकचक्षुः ॥ ७१ ॥ तकैरवगर्भादुत्थितेनोष्मणा शमितमिति तात्पर्यम् । अभिसृमरा अभिसरणशीला या मृगाक्षी तस्या मूका अवचना दूत्य इव । अन्या दूती नायिकानायकयोरन्योन्यवाक्यकथनेनान्योन्यानुरागं साधयति । चन्द्रकिरणास्तु वियुक्तयोरुभयोः संबन्धमात्रेणैव संयोगं जनयन्तीति भावः । अभिसुमरेति 'सृघस्यदः क्मरच्' । स्वदन्ते रोचन्ते । शशिमणिश्चन्द्रकान्तः । मकरन्दोऽमृतम् । मकरन्द इव मकरन्दः । तेनोत्कन्दला उद्गतपल्लवाः । तैरिति । अभिसृताभिसारिका । 'आदिकर्मणि क्तः कर्तरि च' इति क्तः । सर्वज्ञीभवन्ती चासावभिसारिका चेति । तस्या नयनसिद्धाञ्जनैरिव । अभिसारिकाणामखिलकामकलापरसज्ञानप्रच्छादनादिज्ञातृतया सर्वज्ञत्वम् । तत्र चान्धकार एव सर्वत्र हेतुरित्याशयः । अन्यस्मिन्नपि सर्वज्ञत्वे सिद्धाञ्जनतन्त्रता भवत्येवेति ध्वनिः । त्रिभुवन: नेत्राणां नीरन्धैर्निबिडैरन्धपट इति ख्यातैरिव तमोभिरन्धकाराप्तमखिलं समस्तं पृथ्वीवलयमुच्छलद्भिरुत्थितैर्योत्स्नाजालैः क्षालयञ्शुचीकुर्वन् । प्रकाशयन्निति यावत् । अयं शर्वरीसार्वभौमः शर्वर्या रात्रेश्चक्रवर्ती चन्द्र उदयत इत्यन्वयः । वाद्वयं विकल्प उपमायां वा । 'वा स्याद्विकल्पोपमयोः' इति विश्वः । उदयतीति । तुहिनं हिमं तदेव रुचिरं मनोझं धाम तेजो यस्य स चन्द्र उदयतीति संबन्धः । 'इ गतौ' इति भौवादिकः परस्मैपदी। कलोऽव्यक्तमधुरः । मन्द्रो गम्भीरः । तादृशैरलीनां भ्रमराणां कण्ठा एव ताला गीतक्रियामानानि तैः । कुमुदमुकुलकेषु अङ्गहारानङ्गविक्षेपान्व्यञ्जयप्रकाशयन् । 'अङ्गहारोऽङ्गविक्षेपः' इत्यमरः । चकोरीसंतोषरूपः कर्मान्तः कर्मस्थानं तद्योगात् 'अत इनिठनौ' इति ठन् । कर्मान्तिकः कर्मकराध्यक्षः । 'कामत' इति ख्यातः । पुनः कीदृशः । दक्षिणं लोकानां चक्षुरिव चक्षुः । आनन्दजनकखाद्दक्षिणनयनेन रूपणम् । 'तुहिनरुचिरवामादक्षिणम्' इति पाठे तुहिनरुचिश्चन्द्र उदयतीत्यन्वयः ।
१. अयं श्लोकः पुस्तकान्तरेऽग्रिमश्लोकादनन्तरं वर्तते. २. 'जगतामनुग्रहाय' इति पुस्तकान्तरे नास्ति.
For Private and Personal Use Only