Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 297
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९० काव्यमाला । सीता - (सस्मितम् ।) जाणामि अज्जउत्तस्स कित्तिकन्तीहिं पडिस्पर्द्ध कदुअ पराजिदेण संपदि भअवदा हरिणङ्केण कलङ्कसंघदी विढत्ता । ( सर्वे हसन्ति । रामः स्मयते ।) सीता- - ( रामं प्रति ।) सारम्भं सिरिवच्छलञ्छणभु आपज्जत्थमन्थाअलक्खोभोच्छल्लिददुद्धसिन्धुलहरीगब्भच्छईसच्छअम् । को गायेदि ण दे रहू पहुणो अन्धारपक्खन्तरासंतुट्टन्तमिअङ्कमण्डलमलकुद्दामगोरं जसम् ॥ ७६ ॥ रामः- - ( सहर्षस्मितम् ।) अयि प्रिये प्रियवादिनि, चन्द्रलोकादपि परं पदमारोपयन्ति माम् । अमूरमृतबिन्दूनामनुप्रासास्तवोक्तयः ॥ ७७ ॥ विभीषणः - (सानुरागम् ।) अद्योर्वीतलमूलघर्षणवशादुन्मृष्टचूडामणि श्रेणिश्रीपरिपीतपीवरतमः पूरे पुरे भोगिनाम् । कर्णाभाव निरस्त कुण्डलरव व्यासङ्गमाधुन्वता मूर्ध्नः पन्नगपुंगवेन सुभगं त्वत्कीर्तिराकर्ण्यते ॥ ७८ ॥ 'किंयत्तदेतेभ्यः परिमाणे चतुष्' । 'किमिदंभ्यां वो घः' । क्रियदिति सामान्योक्तौ क्रियाविशेषणे वा नपुंसकता । यद्यस्मान्महत्परिमाणायास्त्वत्कीर्तेः प्रतिगर्जति सदृशीभवति । 'स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति' इत्याद्युक्त्वा 'शब्दाः सादृश्यवाचका:' इति दण्डी । जाणामीति । 'जानाम्यार्यपुत्रस्य कीर्तिकान्तिभिः प्रतिस्पर्धा कृत्वा पराजितेन संप्रति भगवता हरिणाङ्केन कलङ्कसंहतिरर्जिता' [इति च्छाया] विढत्ता इति देशी । सारम्भमिति । 'सारम्भं श्रीवत्सलाञ्छनभुजापर्यस्तमन्थाचलक्षोभोच्छलितदुग्धसिन्धुलहरीगर्भच्छविसदृशम् । को गायति न ते रघूणां प्रभोरन्धकारपक्षान्तरासं त्रुट्यन्मृगाङ्कमण्डलखण्डोद्दामगौरं यशः ॥' [ इति च्छाया ।] ते तव यशः को न गायति । अपि तु सर्व एव । श्रीवत्सलाञ्छनो हरिस्तस्य बाहुभिः पर्यस्तः क्षिप्तो यो मन्थाचलस्तत्क्षोभादुच्छलितस्य दुग्धाम्बुधेर्लहरी तरङ्गः प्रवाहो वा तन्मध्यकान्तितुल्यम् । अन्तरा मध्यम् । मलक्कः खण्डः । मृगाङ्क खण्डवदुद्दामगौरमतिश्वेतम् । अनुप्रासाः सदृशाः । अद्येति । हे देव, भोगिनां पुरे पाताले पन्नगपुंगवेन वासुकिना सुभगं यथा स्यादेवं त्वत्कीर्तिराकर्ण्य ते श्रूयते इत्यन्वयः । पुरे कीदृशे । उवमूलस्य घर्षणेन उन्मृष्टा या चूडामणिश्रेणी तस्याः श्रिया कान्त्या परिपीतो नाशितो निविडान्धकारप्रवाहो यत्र तादृशे । कर्णाभावान्निर For Private and Personal Use Only *

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331