Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 296
________________ Shri Mahavir Jain Aradhana Kendra ७ अङ्कः ] इदं चास्य ऐनं च www.kobatirth.org अनर्घराघवम् । Acharya Shri Kailassagarsuri Gyanmandir प्राचीनाचलचुम्बिचन्द्रमणिभिर्निर्व्यूढपाद्यं निजैनिर्यासैरुडुभिर्निजेन वपुषा दत्तार्घलाजाञ्जलि | अन्तः प्रौढकलङ्कतुच्छमभितः सान्द्रं परिस्तीर्यते विम्वादङ्कुरभननैशिकतमः संदोह मिन्दोर्महः ॥ ७२ ॥ मृगराजकरजभङ्गुर किंशुककलिकावतंसिकाः सुदृशः । भयसंकुचदक हरिणबलोज्वलमिन्दुमीक्षन्ते ॥ ७३ ॥ विभीषणः इन्दोरेककलाया रुद्रेणोद्धृत्य मूर्धनि धृतायाः । स्थानमिव तुच्छमेतत्क्रलङ्करूपेण परिणमते ॥ ७४ ॥ ( विहस्य रामं प्रति ।) रोदसीकूपमण्डूकः कियदेष प्रकाशते । चन्द्रमा यदयं देव त्वत्कीर्तेः प्रतिगर्जति ॥ ७५ ॥ २८९ कीदृशः । लोकचक्षुरिव । कीदृशम् । अवामा अकुटिला स्त्री तस्यां दक्षिणं दाक्षिण्यवत् । लिङ्गव्यत्ययेनान्वयः । अवामाविषये दक्षिण इत्यर्थः । ' मन्द्रस्तु गम्भीरे' इत्यमरः । 'ताल: कालक्रियामानम्' इति च । प्राचीनेति । इन्दोर्महस्तेजः कर्तृ अभितः सर्वत्र संभूय मिलित्वा विम्बान्मण्डलात्परिस्तीर्यते विस्तीर्यते । स्वमाच्छादनं करोतीत्यर्थः । कर्मकर्तरि लट् । कीदृशम् । प्राचीनपर्वताग्रस्थितचन्द्रकान्तैर्निर्व्यूढं कृतं पाद्यं पादार्थमुदकं यस्य तादृशम् । पुनः कीदृशम् । निजैनिर्यासैः सारभूतैः उडुभिस्ताराभिर्निजेन वपुषा स्वरूपेण दत्तोर्घो लाजाञ्जलिश्च यस्मै तत् । आत्मनार्घदानं ताराभिर्लाजाञ्जलिदानमिति क्रमः | योग्यत्वादन्वयः । आर्थेन क्रमेण शाब्दः क्रमो लङ्घयते । यथा अग्निहोत्रं जुहोति, यवागूं पचति, इत्यत्र । ताराणां शुभ्रवर्तुलत्वाभ्यां लाजत्वव्यपदेशः । अन्तर्भध्ये उपचितकलङ्केन तुच्छं शून्यम् । अङ्कुर एव भग्नो नैशिकतमः समूहो येन तत् । नैशिकं निशाभवम् । ‘निशाप्रदोषाभ्यां च' इति ठञ् । मृगेति । मृगराजः सिंहः । करजो नखः । तद्वद्भङ्गुरं कुटिलम् । सिंहनखभ्रमाद्भयम् । बहलमधिकम् । उज्ज्वलं दीप्तम् । इन्दोरिति । उद्धृत्य उत्पाट्य । परिणमते निष्पद्यते । कर्मव्यतिहारे तङ् । रोदसीति । द्यावापृथिव्योर्मध्य रोदसी । 'रोदश्च रोदसी चेति दिवि भूमौ पृथक्पृथक्' इत्यमरः । सैव कूपः तत्र मण्डूको भेक इव । एष चन्द्रः कियत् किंप्रमाणं प्रकाशत इत्यन्वयः । For Private and Personal Use Only १. 'इदं चास्य' इत्यारभ्य 'मलकुद्दामगोरं जसम्' इत्यन्तः पाठः केषुचित्पुस्तकेषु 'सेतूपक्रम -' इत्यादिश्लोकादग्रे वर्तमानादनन्तरं वर्तते. २. 'एवं च'.

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331