Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्क: अनर्घराघवम् ।
२८७ देवः किं स्तुमहे महेश्वरशिरोनेपथ्यरत्नाङ्कुरः
क्षीरोदार्णवशुक्तिमौक्तिकमयं दाक्षायणीनायकः ॥ ६७ ॥ सीता--(हसन्ती ।) अज्जउत्त, समाणकुलसीलरूवजोव्वणाणं वि सवत्तीणं सीसे दिण्णो धण्णाए दक्खगोत्तधवलाए रोहिणीए चलणो । जेण रोहिणीरमणो जेव्व भअवं चन्दो सुणीअदि । रामः--(विहस्य ।) आं जानकि,
प्रियोपभोगतुल्येऽपि ताराणां सप्तविंशतेः ।
धत्ते किमपि सौभाग्यमञ्जरीमिह रोहिणी ॥ ६८॥ (स्पर्श च रूपयन् ।)
दलितकुमुदकोषोदञ्चदूप्मोपचार
क्षणशमितचकोरीचन्द्रिकापानजाड्याः । अभिसृमरमृगाक्षीमूकदूत्यः खदन्ते
शशिमणिमकरन्दोत्कन्दलाश्चन्द्रभासः ॥ ६९॥ नशाला वा । 'सतर' इति यस्य प्रसिद्धिः। 'सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च' इत्यमरः । उदधेः समुद्रस्य मेदो मांसवृद्धिस्तत्कारकः । 'नित्यं समासे-' इति सत्वम् । रसायनं सदा क्रियमाणपुष्टिप्रदमौषधम् । पीयूषस्य गजा गृहं तत्पतिः । यद्यपि 'गञ्जा तु मदिरागृहम्' इत्यमराद्गजाशब्दो मदिरागृहे रूढस्तथापि लक्षणया योग्यतया वा गृहमात्रपरोऽत्र । यद्वा गा खनिः । 'गजा खनौं सुरागेहे' इति मेदिनीकरः । नेपथ्यं प्रसाधनम् । 'आकल्पवेषौ नेपथ्यम्' इत्यमरः । क्षीरोदार्णव एव शुक्तिः । रूपकं शुभ्रलसाम्यात् । तत्र मौक्तिकं मुक्ताफलम् । अत्रार्णवस्य शुक्तित्ववर्णनं नानुचितम् । उक्तं च दण्डिना-'न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥' यथा—'हंसीव धवलश्चन्द्रः सरसीवामलं नभः । भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवत् ॥' इति । दाक्षायण्यः सप्तविंशतितारकाः। 'दाक्षायण्योऽश्विनीलादि ताराः' इत्यमरः । अज्जउत्तेति । 'आर्यपुत्र, समानकुलशीलरूपयौवनानामपि सपत्नीनां शीर्ष दत्तो धन्यया दक्षगोत्रधवलया रोहिण्या चरणः । येन रोहिणीरमण एव भगवांश्चन्द्रः श्रूयते' [इति च्छाया।] इह शीर्षे शिरसि । दक्षो नाम मुनिः। धवला निर्मला सुन्दरी वा । 'धवल: सुन्दरेऽमले' इति विश्वः । 'पदनिश्चरणोऽस्त्रियाम्' इत्यमरः । येन हेतुना । सप्तविंशतेरित्यत्र 'विंशत्याद्याः सदैकत्वे संख्याः संख्येयसंख्ययोः' इति वचनादेकत्वम् । मञ्जरी प्रकाण्डः । 'सौरभ्यम्' इति पाटे मनोहरत्वं ख्याति वेत्यर्थः। रूपयन्गृह्णन् । 'रूप निदर्शने' । णिच् । दलितं विकासितम् । कोषो मध्यम् । उदश्चदुद्गच्छत् । उपचारः समूहः । चकोरीणां चन्द्रिकापानेन यज्जाज्यं शीतलत्वं तद्विकसि
१. 'सौभाग्यैः सौरभ्यमिह'.
For Private and Personal Use Only

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331