Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२८६
सुग्रीवः
--
www.kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
रोमन्थप्रचलौष्ठसंपुटसुखासीनश्चिरं कौतुकादृष्ट्वा सिद्धवधूभिरङ्कहरिणस्तालैरथोत्रासितः । मा भाङ्गीदनुमासनव्यघटनानिःसंधिबन्धं वपुः
शीतांशोः क्षुभितस्तु शल्यवदयं दुःखाय वर्तिप्यते ॥ ६४ ॥
अपि च ।
एतस्य कलामेकाममृतमयूखस्य पार्वतीरमणः । वर्णावलिमिव वहति प्रतिमासं घट्यमानस्य ॥ ६५ ॥ राम: - ( सादरं प्रणम्य ।)
त्वं गीर्वाणगणाय नित्यममृतश्राद्धं भवद्दीधितिधात्रीकर्म च वीरुधां विदधती धते जगज्जीवितम् । सोम त्वामनिधाय मूर्धनि भवेत्कः कालकूटं गिल
न्कण्ठे तच्छलकालपाशवलयालीढोऽपि मृत्युंजयः ॥ ६६ ॥ ( सीतां प्रति ।)
नेत्राणां मधुपर्कसमुदधेः सर्वाङ्गमेदस्करः
शृङ्गारस्य रसायनं मखभुजां पीयूषगञ्जापतिः ।
रोमन्थेति । अयमङ्कहरिणः शीतांशोः शरीरं मा भाङ्गीत् मा भग्नं कुर्यात् । तु पुनः क्षुभितश्चलितः सन् शल्यवद्दुःखाय वर्तिप्यते । भङ्गहेतुविशेषणमाह-- रोमन्थेत्यादि । तालैर्हस्तद्वयसंयोगजन्यशब्दभेदैः । वपुः कीदृशम् । अनुमासं प्रतिमासं या नव्यघटना नूतनघटनं तया निःसंधि संधिशून्यं वन्धो यत्र तादृशम् । वर्णावलिमिव । यावतो वारानयं घटितस्तावदक्षरपङ्क्तिमिवेत्यर्थः । घट्यमानस्य क्रियमाणस्य । त्वमिति । हे सोम, त्वं देवगणायामृतश्राद्धममृतरूपं हव्यम् । असीति शेषः । 'हव्ये कव्ये भवेच्छ्राद्धम्' इति विश्वः । भवतो दीधितिः किरणो जगतां जीवितं प्राणान्धत्ते । कीदृशी । वीरुधां लतानां धात्री उपमाता तत्कर्म परिपालनस्वरूपं विदधती कुर्वाणा | जलेन चन्द्रतेजसा च वृक्षा जीवन्तीति ध्वनिः । त्वां मूर्धनि मस्तके अनिधायावृत्वा कालकूटं विषभेदं गिलन्सन् कण्ठे गले तच्छलेन कालकूटव्याजेन यमपाशवलयेन यमरजुवेष्टनेनालीड आस्वादितोऽपि मृत्युंजयो मृत्योर्जेता को भवेत् । अपि तु न कोऽपि जीवेदित्यर्थः । तथा च भगवानेव शिवस्त्वां मूर्धनि निधायामृतरूप किरणधारणाद्विषमपि गिलजीवतीति भावः । नेत्राणामिति । अयं दाक्षायणीनायकस्तारापतिश्चन्द्रः । अस्तीति शेषः । किं तुम कथं तुमहे । तमिति शेषः । अपि त्वतिगुणशालितया स्तोतुमेवैनं न पारयामः । कीदृशः । नेत्राणामानन्ददायित्वेन मधुपर्कस्य दधिमधुघृतस्वरूपस्य सत्रं यज्ञः सदा भोज१. 'बहुत्रासितः'; 'अथोहासितः'.
For Private and Personal Use Only

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331