Book Title: Anargha Raghavam
Author(s): Murari, Durgaprasad Pandit, Vasudev Lakshman Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 291
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८४ काव्यमाला। विभीषणः-(सीतां प्रति ।) देवि, चन्द्रलोकोपकण्ठमधिरूढो विमान राजः । दृश्यतां च भगवानयम् । यं प्राक्प्रत्यगवागुदच्चि ककुभां नामानि संबिभ्रतं ___ ज्योत्स्नाजालझलझलाभिरभितो लुम्पन्तमन्धं तमः । प्राचीनादचलादितस्त्रिजगतामालोकबीजाबहि निर्यान्तं हरिणाङ्कमङ्कुरमिव द्रष्टुं जनो जीवति ॥ ६० ॥ अपि च । स श्रीकण्ठकिरीटकुट्टिमपरिष्कारप्रदीपाङ्कुरो देवः कैरवबन्धुरन्धतमसप्राग्भारकुक्षिभरिः । संस्कर्ता निजकान्तिमौक्तिकमणिश्रेणीभिरणीदृशां गीर्वाणाधिपतेः सुधारसवतीपौरोगवः प्रोदगात् ।। ६१ ॥ सितो गौरः' इत्यमरः । उपकण्ठः समीपम् । यमित्यादि । यं हरिणाझं द्रष्टुं जनो जीवतीत्यन्वयः । कीदृशम् । प्राक् प्राची, प्रत्यक् प्रतीची, अवाक् दक्षिणा, उदक् उत्तरा, एवंरूपाणि ककुभां दिशां नामानि संबिभ्रतं धारयन्तम् । प्राच्यादिव्यपदेशस्य चन्द्रसूर्यादिनिमित्तकत्वात् । यत्र प्रथममश्चति चन्द्रः स प्राक् । यत्र प्रतीपमञ्चति स प्रत्या, यत्रावाञ्चति तिर्यग्याति सोऽवाकू । यत्रोत्तरमञ्चति स उदग्देश इति व्युत्पत्तेः । इह 'दक्षिणस्यामवाच्येव' इति विश्वप्रकाशकोषादवपूर्वस्याञ्चतेरधःप्रदेशार्थत्वात् 'अवाङ्मुखस्योपरि पुष्पवृष्टिः' इत्यादौ तथा निर्णयाद्दक्षिणादिग्वाचकोऽवाक्शब्द इत्यवधेयम् । ज्योनाजालस्य झलञ्झलाभिरास्फालैः। आघातैरिति यावत् । अभितः सर्वतोऽधंतमो गाढान्धकारं लुम्पन्तं नाशयन्तम् । प्राचीनात्पूर्वदेशोद्भवादितोऽस्मात्पर्वतानिर्यान्तमुद्यन्तम् । आलोकवीजाद्दर्शनकारणात् । कीदृशम् । अङ्कुरमिव अङ्कुरतुल्यम् । अन्योऽप्यकुरो बीजाबहिर्निगच्छन्दृश्यत इति ध्वनिः । 'स्यादास्फाले झलझला' इति हारावली । 'आलोकौ दर्शनोद्योती' इत्यमरः । स श्रीकण्ठेति । सोऽयं कैरवबन्धुश्चन्द्रः प्रोदगादुदितः । श्रीकण्ठस्य शिवस्य यत्किरीटं मुकुटं तदेव कुटिमं गृहभेदो भूमीकर्म वा तस्य परिष्कारे प्रदीपाङ्कर इव प्रदीपकलिकेवेत्युत्प्रेक्षा । अन्यस्यापि कुटिमस्य रात्रौ परिष्कारः प्रदीपेन क्रियत इति ध्वनिः । अन्धतमसानां गाढान्धकाराणां यः प्राग्भारः प्राचुर्य तेन कुक्षिभरिः । अशेषान्धकारनाशक इति भावः । निजकान्तिरेव मौक्तिकमणिश्रेणी तया अङ्गनानां संस्कर्ता अलंकर्ता । 'संपर्युपेभ्यः करोती भूषणे' इति सुट् । गीर्वाणाधिपतेरिन्द्रस्य सुधारसवती अमृतपाकस्थानं तस्य पौरोगवो महानसाधिपः । १. 'च' इति पुस्तकान्तरे नास्ति. २. 'अपि च' इति पुस्तकान्तरे नास्ति. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331