________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
काव्यमाला। विभीषणः-(सीतां प्रति ।) देवि, चन्द्रलोकोपकण्ठमधिरूढो विमान राजः । दृश्यतां च भगवानयम् ।
यं प्राक्प्रत्यगवागुदच्चि ककुभां नामानि संबिभ्रतं ___ ज्योत्स्नाजालझलझलाभिरभितो लुम्पन्तमन्धं तमः । प्राचीनादचलादितस्त्रिजगतामालोकबीजाबहि
निर्यान्तं हरिणाङ्कमङ्कुरमिव द्रष्टुं जनो जीवति ॥ ६० ॥ अपि च ।
स श्रीकण्ठकिरीटकुट्टिमपरिष्कारप्रदीपाङ्कुरो
देवः कैरवबन्धुरन्धतमसप्राग्भारकुक्षिभरिः । संस्कर्ता निजकान्तिमौक्तिकमणिश्रेणीभिरणीदृशां
गीर्वाणाधिपतेः सुधारसवतीपौरोगवः प्रोदगात् ।। ६१ ॥ सितो गौरः' इत्यमरः । उपकण्ठः समीपम् । यमित्यादि । यं हरिणाझं द्रष्टुं जनो जीवतीत्यन्वयः । कीदृशम् । प्राक् प्राची, प्रत्यक् प्रतीची, अवाक् दक्षिणा, उदक् उत्तरा, एवंरूपाणि ककुभां दिशां नामानि संबिभ्रतं धारयन्तम् । प्राच्यादिव्यपदेशस्य चन्द्रसूर्यादिनिमित्तकत्वात् । यत्र प्रथममश्चति चन्द्रः स प्राक् । यत्र प्रतीपमञ्चति स प्रत्या, यत्रावाञ्चति तिर्यग्याति सोऽवाकू । यत्रोत्तरमञ्चति स उदग्देश इति व्युत्पत्तेः । इह 'दक्षिणस्यामवाच्येव' इति विश्वप्रकाशकोषादवपूर्वस्याञ्चतेरधःप्रदेशार्थत्वात् 'अवाङ्मुखस्योपरि पुष्पवृष्टिः' इत्यादौ तथा निर्णयाद्दक्षिणादिग्वाचकोऽवाक्शब्द इत्यवधेयम् । ज्योनाजालस्य झलञ्झलाभिरास्फालैः। आघातैरिति यावत् । अभितः सर्वतोऽधंतमो गाढान्धकारं लुम्पन्तं नाशयन्तम् । प्राचीनात्पूर्वदेशोद्भवादितोऽस्मात्पर्वतानिर्यान्तमुद्यन्तम् । आलोकवीजाद्दर्शनकारणात् । कीदृशम् । अङ्कुरमिव अङ्कुरतुल्यम् । अन्योऽप्यकुरो बीजाबहिर्निगच्छन्दृश्यत इति ध्वनिः । 'स्यादास्फाले झलझला' इति हारावली । 'आलोकौ दर्शनोद्योती' इत्यमरः । स श्रीकण्ठेति । सोऽयं कैरवबन्धुश्चन्द्रः प्रोदगादुदितः । श्रीकण्ठस्य शिवस्य यत्किरीटं मुकुटं तदेव कुटिमं गृहभेदो भूमीकर्म वा तस्य परिष्कारे प्रदीपाङ्कर इव प्रदीपकलिकेवेत्युत्प्रेक्षा । अन्यस्यापि कुटिमस्य रात्रौ परिष्कारः प्रदीपेन क्रियत इति ध्वनिः । अन्धतमसानां गाढान्धकाराणां यः प्राग्भारः प्राचुर्य तेन कुक्षिभरिः । अशेषान्धकारनाशक इति भावः । निजकान्तिरेव मौक्तिकमणिश्रेणी तया अङ्गनानां संस्कर्ता अलंकर्ता । 'संपर्युपेभ्यः करोती भूषणे' इति सुट् । गीर्वाणाधिपतेरिन्द्रस्य सुधारसवती अमृतपाकस्थानं तस्य पौरोगवो महानसाधिपः ।
१. 'च' इति पुस्तकान्तरे नास्ति. २. 'अपि च' इति पुस्तकान्तरे नास्ति.
For Private and Personal Use Only