SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अनर्धराघवम् । ७ अङ्कः] अपि च । प्राणायामोपदेष्टा सरसिरुहवने यौवनोन्मादलीलागोष्ठीनां पीठमर्दस्त्रिभुवनवनितानेत्रयोः प्रातराशः कामायुष्टोमयज्वा शमितकुमुदिनीमौनमुद्रानुरागः शृङ्गाराद्वैतवादी विभवति भगवानेष पीयूषभानुः ॥ ६२ ॥ लक्ष्मणः- - ( विलोक्य सकौतुकम् ।) Acharya Shri Kailassagarsuri Gyanmandir कर्णोत्तंसयवाङ्कुरं करतले कृत्वा हसित्वा मिथः संहृतः पुरुहूत पौरयुवतीवर्गेण कौतूहलात् । ग्रासार्तिक्षुभितोऽयमङ्कहरिणः कुर्वीत किं किं कलाकन्थामिन्दुमयीमजस्रर्घटनोद्घाटश्लथावस्थिताम् ॥ ६३ ॥ १. 'आशार्ति -'. २. 'घटनादुद्यच्छथावस्थिताम्'. अन० २५ २८५ 'रसवती पाकस्थानं महानसम्' इत्यमरः । 'पौरोगवस्तदध्यक्षः' इति च । प्राणायामेति । एष पीयूषभानुश्चन्द्रो विभवति उदेति । सरसिरुहवने प्राणायामोपदेष्टा पद्मवने निमी मौनकथकः । प्राणायामे हि नेत्रनिमीलनं मौनं च क्रियते । 'स निमीलितदृयौनी प्राणायामान्समभ्यसेत्' इति स्मृतेः । यौवनोन्मादे या लीला विलासस्तदर्थं या गोष्टी मेलकं तस्याः पीठमर्दोऽनुनायक विशेषः । तथा च भरतः - ' पीठमर्दो विश्चैव विदुषक इति त्रयः । गृङ्गारे नर्मसचिवा नायकस्यानुनायकाः ॥' इति । यथा मालतीमाधवे मकरन्दः पीठमर्दः । पुनः कीदृशः । त्रिभुवनवनितानां त्रैलोक्यस्त्रीणां नेत्रयोर्लोचनयोः । " स्तनादीनां द्विष्टा जातिः' इत्युक्तत्वात्स्त्रीणां बहुत्वेऽपि नेत्रयोरिति जात्यपेक्षया द्वित्वम् । प्रातराशः प्रातर्भोजनम् । नेत्रयोरिति द्विवचनेन तासां सुखित्वं प्रत्येकमेव ध्वनितम् | यथा लोकाः किंचिद्भुक्त्वैव दारेषु सुखं प्रवर्तन्ते तथैता अपि चन्द्रं दृष्ट्वा काम केलिघूत्सहन्त इति भावः । 'प्रातराशः कल्यवर्तः प्रातर्भोजनमित्यपि' इति हारावली | कंदर्पस्यायुष्टोम आयुर्वर्धको यागस्तस्य यज्वा कर्ता । 'ज्योतिरायुषः स्तोमः' इति षत्वम् । भूयः किंभूतः । शमितः कुमुदिनीनां मौनं तूष्णींभावस्तद्रूपा मुद्रा मीलनग्रहस्तदनुरागो येन स तथा । पुनः कीदृशः । शृङ्गाराद्वैतवादी शृङ्गार एव परं नान्यः कश्चिद्रस इति वादकः । कर्णोत्तंसेति । अयमङ्कहरिण : इन्दुमयीं कलाकन्थां कलया या कन्था कन्थेव कन्था इति प्रसिद्धा तां किं किं कीदृशीं कीदृशीं कुर्वीत । अपि तु यवाङ्कुरभक्षणाय निरन्तरचलनाद्विपर्यस्तां कुर्वीतेति भावः । बहुशो निर्माणे उद्घाटचालनं तेन लथीभूय स्थिताम् । कृष्णपक्षे प्रत्यहमेव कलाया आकर्षणात् श्लथत्वम् । For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy