________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः] अनर्घराघवम् ।
२८३ सुग्रीवः-सत्यमगोचरे गिरां दशकण्ठक्रीडितानि । एकैके निवसन्ति ते भुजभृतः कस्मै निगृह्णामहे
वीरक्षेत्रमियं पुनर्वसुमती पौलस्त्यमाबिभ्रती । वाली त्वाह्यमानमेनमपि यचक्रे कृते चक्षुषी
पश्यामः श्रवसी कृते च शृणुमस्तद्वक्तुमल्पे वयम् ॥ ५८ ॥ रामः-(सबहुमानम् ।) स किं वाच्यो वाली भुजकुलिशमूलेन देशतो
दशग्रीवं यस्य प्रतिजलधि संध्याविधिरभूत् । कथं वा निर्वाच्यः स च दशमुखो यस्य दमने __मनागासीद्वालिव्ययचरितमेवोपकरणम् ।। ५९ ॥ सीता--(रामं प्रति ।) अज्ज उत्त, किं उण एवं दलिदकप्पूरसलाआमलक्कगोरअं गअणङ्गणे दीसइ । द्वितीया । 'कालभावाध्वदेशानाम्' इति न्यायात् । तथा चामरावतीं प्राप्य विहारं करोतीत्यर्थः । अगोचरे अविषये । एकैक इति । एकैके अनेके ते भुजबलभृतो बाहुबल. धारिणो निवसन्ति । तेषु मध्ये इत्यर्थात् । कस्मै निगृह्णामहे कुत्सां कुर्मः । कस्मै इत्यत्र 'क्रियाग्रहणमपि कर्तव्यम्' इति संप्रदानता । 'ग्रह गृह्ण कुत्सायाम्' । इयं पुनर्भूमी रावणं दधाना वीरक्षेत्रं वीराणां स्थानमस्ति । वाली पुनरेनमपि रावणमपि आह्वयमानं स्पर्धमानं यच्चके यादृशं परिभवभाजनं कृतवान् । कक्षास्थमित्यर्थः । तच्चक्षुषी कृते इति कृत्वा पश्यामः । श्रवसी कौँ कृते इति कृत्वा शृणुमः । वक्तुं तद्वयमल्पे असमर्था एव । श्रवणौ चक्षुषी च वे द्वे इति श्रुतं दृष्टं च । एकेनैव तु मुखेन कथं रावणपरिभवो वालिपराक्रमश्च वक्तुं शक्यः । बहुभिरेव मुखैवक्तुं शक्यत इति भावः । अल्पे इत्यत्र 'प्रथमचरम-' इत्यादिना जसि सर्वनामसंज्ञा । स किमिति । किं वाच्यः । अपि तु वक्तुमेव न शक्यः । भुज एव कुलिशं वज्रम् । दशतः पीडयतः । प्रतिजलधि समुद्रे समुद्रे । वीप्सायामव्ययीभावः । रावणं कक्षायां निक्षिप्य प्रतिसमुद्रं वाली संध्यावन्दनं कृतवानिति प्रसिद्धिः । दमने मारणे । व्ययो विनाशः । चरितमाचरणम् । मनागेकदेशतः । उपकरणं रावणवधकरणमित्यर्थः । रावणजेतृविनाशे सति रावणस्य सुकरत्वादिति भावः । तथा च येन वालिना रावणः कक्षायां निक्षिप्य वृतः स वाली यथा नाशितस्तथैवायं रावणोऽपीति रावणस्य शौर्योत्कर्ष. प्रतिपादितः । अजउत्तेति। 'आर्यपुत्र, किं पुनरेतद्दलितकर्पूरशलाकाखण्डगौरं गगनाङ्गणे दृश्यते' [इति च्छाया ।] इह दलिता भन्नाः । शलाकाः काष्टिकाः 'सराग' इति ख्याता । 'छत्रादिकाष्टीशरयोः शलाका' इति मेदिनीकरः। मल्लक इति देशी खण्डवाचकः । गौरं शुभ्रम् । अवदातः
१. 'निगृह्णीमहे'; 'निगृहामहे. २. 'दधतो.' .
For Private and Personal Use Only