________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८२
काव्यमाला।
(निरूप्य च सहर्षस्मितम् ।) कथमुपर्युपरि पुष्करावर्तकानभ्रमुवल्लभः। (विमृश्य।)
अद्यायं विबुधेन्द्रबान्धववधूसंभुक्तसंतानक___ लग्दानीममरावती विहरते निर्वैरमैरावणः । यं दोर्मात्रपरिच्छदो युधि मुदोत्क्षिप्य प्रतीच्छन्मुहुः
संतेने दशभिर्निजैरपि मुखैः सांराविणं रावणः ॥ ५७ ।। सहासस्य । स्वर्णादिप्रदेशे तरूणां फलोपचय इति प्रसिद्धिः । अनूरुसारथेः सूर्यस्य रथानां प्रस्थाने गमने घण्टापथो राजमार्गः । अस्मिन्सीमन्ते हयैरश्वैः अर्थादादित्यस्य प्रधिश्चक्रान्तः कथंचन कष्टसृष्ट्या उद्रियते उत्तोल्यते । उद्दामा उद्भटा या चण्डातपज्वाला सूर्यार्चिस्तस्याः समूहस्तेन विलीना आवर्तिता द्रवीभूतेति यावत् । काञ्चनशिला सुवर्णप्रस्तरः । सैव जम्बालः कर्दमः । तत्र मग्नः । तथा च कर्दममन्नत्वात्कष्टेनोद्रियत इति भावः । 'घण्टापथः संसरणम्' इत्यमरः । 'नेमिः स्त्री स्यात्प्रधिः पुमान्' इति च । उपर्युपरीति 'उपर्यध्यधसः सामीप्ये' इति द्विरुक्तिः । पुष्करावर्तकान्मेघभेदान् । 'पुष्करावर्तका मेघाः पुण्यवारिप्रवर्षिणः' इति ज्योतिःशास्त्रम् । 'उभसर्वतसो:--' इत्यादिना द्वितीया। अभ्रमुवल्लभ ऐरावतः । ऐरावतस्य पुष्करावर्तको वाहन मिति प्रसिद्धिः। अद्यायमिति । ऐरावण ऐरावतः निवरं शत्रशून्यं यथा स्यादेवममरावतीमिन्द्रनगरी विहरते । भ्रमतीत्यर्थः । कत्रभिप्राये तङ् । विबुधेन्द्र इन्द्रस्तम्य वान्धवो मित्रं देवास्तेषां वध्वोऽप्सरसस्ताभिः संभुक्तमुपभुक्तं संतानको देववृक्षो देवपुष्पं वा तस्य स्रग्दाम स्रगेव । वज्राश निन्यायात् । यद्वा स्रजो मालाया दाम समूहः । यद्वा सजा दाम वेष्टनं यत्र तादृशीम् । यमैरावणं दोत्रिपरिच्छदो भुजैकसहायो रावणो युधि सङ्ग्रामे हर्षेणोतिक्षप्योर्ध्वं नीला वारं वारं प्रतीच्छन्सन् स्वीयैर्दशभिर्मुखैः साराविणं संभूय वं संतेने वितनुते स्म । सांराविणमिति ‘अभिविधौ भाव इनुण्' । 'अणिनुणः' इति खा. र्थेऽणि 'इनण्यनपत्ये' इति प्रकृतिभावान्न टिलोपः । 'संरावो बहुभिः कृतः' इत्यमरः । ननु ‘दामहायनान्ताच्च' इत्यत्र 'संख्याव्ययादेः' इत्यनुवर्तते तत्कथं दानीत्यत्र डीम् । मैवम् । 'डावुभाभ्यामन्यतरस्याम्' इलतोऽन्यतरस्यांग्रहणादसंख्याव्ययादेरपि 'दामहायनान्ताच' इति डीवो विधानात् । विहरत इत्यत्र यद्यपि विपूर्वस्य हरतेरकर्मकलम् । 'विहरति हरिरिह सरसि वसन्ते' इत्यादौ तथा दर्शनात् । तथापि तत्र क्रीडार्थतया विहरतेः प्रयोगः । अत्र तु भ्रमणार्थतया । तथा च सकर्मकत्वमेव । भ्रमणार्थता च धातोरनेका. र्थत्वात् । 'उपसर्गेण धात्वर्थो वलादन्यत्र नीयते' इति न्यायाद्वा । न च विहरतेः कीडायां रूढेस्तत्त्यागे रूढिच्युतकं स्यादिति सांप्रतं विहरतेनानार्थत्वात् । तथाहि मेदिनी. करः--'विहारो भ्रमणे स्कन्धे लीलायां मुगतालये' इति । यद्वा देशे अत्यन्तसंयोगे
१. 'पुष्करावर्तकानाम्'.
For Private and Personal Use Only