________________
Shri Mahavir Jain Aradhana Kendra
७ अङ्कः]
www.kobatirth.org
अनर्घराघवम् ।
मेरो दुरयन्ति संसदमधःसंपातिभिज्योतिषामाटोपैर्विटपोपरिस्थिततरुच्छायाभृतोऽधित्यकाः । निष्पीतासु च मासि मासि विबुधैरिन्दोः कलासु क्रमादुद्दामप्लवमानलाञ्छन मृगच्छिन्नाप्रदर्भाङ्कुराः ॥ ५४ ॥
लक्ष्मणः- - ( सीतां प्रति । )
अपि च ।
Acharya Shri Kailassagarsuri Gyanmandir
ऐतासु पर्वतनितम्बतटीषु पश्य मध्यंदिनेऽपि हरिचन्दनवाटिकेयम् । पक्षस्थितधुमणिविम्बतयातिदीर्घच्छायावितानमधुरा मुदमादधाति ॥ ५५ ॥
For Private and Personal Use Only
२८१
भूमेः स्वर्णतया फलोत्तरतरुस्मेरस्य मेरोस्तटीसीमन्तोऽयमनूरुसारथिरथप्रस्थानघण्टापथः । अस्मिन्नुद्धियते कथंचन हयैरुद्दामचण्डातपज्वालाजालविलीनकाञ्चनशिलाजम्बालमनः प्रधिः ॥ ५६ ॥
'कपार्दोऽस्य जटाजूटः' इत्यपि । उन्नम्यतामूर्ध्वं गम्यताम् । मेरोरिति । अधित्यकाः पर्वतोर्ध्वभूमयः । मेरो: संपदं हर्ष संपदं शोभां वा मेदुरयन्ति उपचितीकुर्वन्ति । कीदृश्यः । अधःसंपातिभिरवः संचारिभिः सूर्यादीनां ज्योतिषां तेजसामाटोपैः समूहैर्हेतुभूतैः शाखोपरिस्थिततरुच्छायां बिभ्रति यास्ताः । यदा ज्योतिरूर्ध्वं तदाधरछाया, यदा चाधस्तेजस्तदोपरिच्छाया । अत्र च मेरोरुच्चतया शैलाग्रस्थितवृक्षाणामधो ज्योतिषामाटोपादूर्ध्वमेव च्छाया । तेन च्छायानां स्थिरत्वमिति भावः । मासि मासि प्रतिमासम् 'पद्दनोमासू-' इत्यादिना मासशब्दस्य हलन्तो मास्आदेशः । निष्पीतासु भक्षितासु । यथापर्यांयपीतस्य सुरैर्हिमांशोरिति । विबुधैर्देवैः । उद्दाम उद्भटः । मृगस्योद्दामत्वं प्रतिवन्धकचन्द्रभक्षणात् । दर्भः कुशः । एतास्विति । नितम्बः कटकम् | 'कटकोsस्त्री नितम्बोऽद्रेः' इत्यमरः । मध्यंदिने दिनमध्ये | मध्यशब्दादौणादिको दिनप्रत्ययः । हरिचन्दनं देवदारुभेदः । पक्षः सुमेरोः पार्श्वम् । मणिः सूर्यः । छाया प्रतिबिम्बम् । वितानो विस्तारः । मधुरा मनोज्ञा । अन्यत्र प्रातः सायंकालयोरृक्षच्छाया दीर्घा । अत्र तु रवेः पार्श्वस्थतया मध्याह्नेऽपि सा दीर्घेति हर्ष इति भावः । भूमेरिति । अयं मेरोस्तटीसीमन्तस्तटीरेखा । स्त्रीकेशरचना रेखायां सीमन्तशब्दो मुख्यः । इह तु लक्षणया रेखामात्रे प्रयुक्त इति । भूमेः स्वर्णतया फलोत्तराः फलप्रधाना ये तरवस्तैः स्मेरस्य
१. मूलपुस्तकेष्वयं श्लोकः 'भूमेः स्वर्णतया -' इत्याद्यग्रिमश्लोकादनन्तरं वर्तते.