________________
Shri Mahavir Jain Aradhana Kendra
૨૦૦
www.kobatirth.org
काव्यमाला |
रामः (सबहुमानम् 1 )
विभीषणः - (विहस्य | ) शङ्के भगवानपि न मृगाङ्कमलंकारकामः क
यति । तथा हि ।
Acharya Shri Kailassagarsuri Gyanmandir
सहचरपिशाचपरिषत्प्रसत्तये कामचारतो रजनीम् । कारयितुमिव कपाली शिरसि निशाकरमयं वहति ॥ ५२ ॥ ( सर्वे हसन्ति । )
श्रीकण्ठस्य कपर्दबन्धन परिश्रान्तोरगग्रामणी
संदष्टां मुकुटावतंसकलिकां वन्दे कलामैन्दवीम् । या विम्बप्रतिपूरणाय परितो निष्पीड्य संदेशिकायत्रेणेव ललाटलोचनशिखिज्वालाभिरावर्त्यते ॥ ५३ ॥ ( पुष्पकं प्रति ।) विमानराज, मनागुन्नम्यताम् । आलोकयतु मैथिली सुमेरुशिखराणि ।
विभीषणः- - ( सीतां प्रति । ) देवि पश्य पश्य ।
मण्डनस्य श्मशानवासिनो भूषणतैव रोहिणीवल्लभस्य कलङ्कः, किं तपस्विना कुरङ्गकेण [ इति च्छाया ।] इह दंदशूकः सर्पः । नरक रोटिर्ब्रह्मकपालास्थि । 'लडआ' इति प्रसिद्धा । रोहिणीवल्लभश्चन्द्रः । तपखिना वराकेण । कुरङ्गकेणाल्पहरिणेन । अल्पार्थे कन् । 'भूषणताविलम्बनमेव' इति पाठे अलंकरणतारूपं विडम्बनं धर्षणमेव कलङ्क इत्यर्थः । कलयति धारयति । सहचरो द्वितीयः । परिषत्समूहः । प्रसत्तिः प्रसन्नता । कामचारत इच्छातः । पिशाचानां रात्रिचरत्वाच्चन्द्रोऽप्ययं निशां करोत्वितिकृत्वा शिवश्चन्द्रं वहति । एतदेव निशाकरपदोपादाने बीजम् । इवेत्युत्प्रेक्षायाम् | सबहुमानं सादरम् | श्रीकण्ठस्येति । ऐन्दवीमिन्दुसंबन्धिनीं कलां वन्दे नमामि स्तौमि वा । श्रीकण्ठस्य शिवस्य कपर्दबन्धनेन जटाजूटसंयमनेन परिश्रान्तो य उरगग्रामणीः सर्पराजो वासुकिस्तेन संदष्टां कवलिताम् । अवतंसो भूषणम् । कलिकेव कलिका । या कला बिम्बप्रतिपूरणाय अर्थाच्चन्द्रस्य संपूर्ण मण्डलं कर्तुं संदशिका 'संडासी' इति प्रसिद्धा सा च वासुकिरेव तद्रूपयन्त्रेण निष्पीड्य यन्त्रयित्वा महेशस्य ललाटलोचनज्वालाभिराव द्रवीक्रियत इव । अन्यदपि हिरण्यादिकं किंचित्पूरणाय संदंशिकया वृत्वाग्निभिरावर्त्यत इति ध्वनिः । ' ग्रामणीर्नापिते प्रभौ' इति विश्वः । ' उग्रः कपर्दी श्रीकण्ठः '
इत्यमरः ।
१. ' तथाहि ' इति पुस्तकान्तरेषु नास्ति २. 'शिरोनिशाकर'. ३. 'उत्क्षम्यताम्'; ४. 'अवलोकयतु'.
'उत्ताम्यताम्'.
For Private and Personal Use Only