________________
Shri Mahavir Jain Aradhana Kendra
७ अङ्कः ]
किं च ।
www.kobatirth.org
अनर्घराघवम् ।
Acharya Shri Kailassagarsuri Gyanmandir
२७९
यन्नाट्यभ्रमिघूर्णमानवसुधाचक्राधिरूढे भृशं
मेरौ पार्श्वनिविष्ट॑वासरनिशाचके परिभ्राम्यति । तैजस्यस्तडितो भवन्तु शतशो दृष्टा हि जाताः कथं तामस्योऽपि स वः पुनातु जगतामन्तेष्टियज्वा विभुः ॥ ५० ॥
लक्ष्मणः-
जयति परिमुषितलक्ष्मा भयादनुपसर्पतेव हरिणेन । इह केसरिकरजाङ्करकुटिला हरमौलिविधुलेखा ॥ ५१ ॥ सीता - ( सपरिहासम् । ) एदस्त दंदसूअणर करोडमुण्डमालामण्डणस्स मसाणवासिणो भूसणता ज्जेव्व रोहिणीवल्लहस्स कलंको, किं तवस्सिणा कुरङ्गएण ।
For Private and Personal Use Only
क्रीडारभसिनि कुमारे कार्तिकेये तां च पद्ममालाभ्रमेण जिघृक्षौ ग्रहीतुमिच्छौ सति हसन्सन् मृडानीप्रभुर्महेशो वो युष्माकं कल्याणानि द्रढयत्वित्यर्थः । नमसितरीति 'नमो वरिव -' इति क्यच् । 'यस्य हल:' इति यलोपः । परिवृढः प्रभुः । ' प्रभौ परिवृढः ' इति निपातनम् । यन्नाट्येति । स भगवान् अन्तेष्टिरन्तयज्ञः प्रलयनामा तस्य यज्वा याज्ञिको विभुः सर्वव्यापी महादेवो वो युष्मान्पुनातु । यस्य प्रलयार्थ नाट्ये भ्रम्या मण्डलोभ्रमेण घूर्णमानं भ्रमितं यचक्रं तत्राधिरूढे मेरी सुमेरौ अत एव भृशमत्यर्थं भ्राम्यति सति तैजस्यस्तेजोविकारास्तडितो विद्युतो भवन्तु । हि यतस्ताः शतशो बहुधा दृष्टाः । तामस्य स्तमोविकारा अपि तडितः कथं भवन्तु । अदृष्टपूर्वत्वात् । तथापि दृश्यन्त इत्याश्चर्यम् । ननु कथं तैजस्यतामस्यश्च तडितो भवन्तीत्यत आहमेरौ कीदृशे । पार्श्वे समीपे निविष्टाभ्यां दिनरात्रिभ्यां चित्रे कर्बुरे । अयमाशयःपरमेश्वरनाट्येन परिभ्राम्यति सुमेरौ समीप स्थित दिवसरात्र्योरपि भ्रमणेन यथाक्रमं तैजस्यस्तामस्यश्च तडितो जाता इति । जयतीति । इह कैलासतटीभूमौ शिवशिर:शशिलेखा जयति । कीदृशी । सिंहनखाग्रवत्कुटिला वक्रा । अत एव सिंहनखभ्रमजन्यत्रासादनुपसर्पतेव पलायमानेनेव हरिणेन परिमुषितं व्यक्तं लक्ष्म कलङ्को यस्य तादृशी । हरिणेनेति 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया । करजो नखः । अनुपसर्पतेवेत्यत्र इवशब्द उत्प्रेक्षायाम् | 'अन्यथैव स्थिता वृत्तिवेतनस्येतरस्य वा । अन्यथोत्प्रेक्ष्यते या तु तामुत्प्रेक्षां विदुर्बुधाः ॥ ' मन्ये शके ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवंशब्दोऽपि तादृशः ॥' इति दण्डी । वस्तुतस्तु — हरशिरः स्थितचन्द्रलेखायां कलङ्को न वर्तत एवेति तत्रोत्प्रेक्षा । एदस्सेति । 'एतस्य ददशूकनरकरोटिमुण्डमाला१. 'पार्श्वनिवेशि - '; 'पार्श्व निवासि -'.
--