SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८ काव्यमाला। अपि च । दशमुखभुजदण्डमण्डलीनां दृढपरिपीडनपीतमेखलोऽयम् । जलगृहकवितर्दिकासुखानि स्फटिकगिरिगिरिशस्य निर्मिमीते ।। ४७ ॥ विभीषणः--(सीतां प्रति ।) देवि, दृश्यन्ताममी कैलासाद्रितटीषु धूर्जटिजटालंकारचन्द्राङ्कुर ज्योत्स्नाकन्दलिताभिरिन्दुदृषदामद्भिर्नदीमातृकाः । गौरीहस्तगुणप्रवृद्धवपुषः पुष्प्यन्ति धात्रेयक भ्रातृस्नेहसहोढषण्मुखशिशुक्रीडासुखाः शाखिनः ॥ ४८ ॥ अपि चास्य नित्यमधित्यकावासी परमेश्वरः । सहस्राक्षैरङ्गैर्नमसितरि नीलोत्पलमयी मिवात्मानं मालामुपनयति पत्यौ मखभुजाम् । जिघृक्षौ च क्रीडारभसिनि कुमारे सह गणै हसन्वो भद्राणि द्रढयतु मृडानीपरिवृढः ॥ ४९ ॥ दिति भावः । दशमुखेति । दशमुखस्य रावणस्य भुजदण्डमण्डलीनां दृढ़परिपीडनेन गाढयन्त्रणेन पीता दुर्बलीकृता मेखला यस्य सोऽयं कैलासो महादेवस्य सलिलगृहं 'जलहरी' इति ख्यातं तदेव वितर्दिका वेदिका तत्सुखानि निर्मिमीते ददाति । 'माङ् माने' । शपः श्लुः । 'भृञामित्' इतीत्त्वम् । जलनाड्या रावणभुजमण्डलीयन्त्रणेनोवंगमनाद्धारागृहसुखमिति भावः । 'स्याद्वितर्दिस्तु वेदिका' इत्यमरः । कैलासेति । अमी शाखिनो वृक्षाः कैलासपर्वतस्य तटीषु पुष्प्यन्ति पुष्पवन्तो भवन्ति । महादेवजटालंकारीभूतो यश्चन्द्राङ्कुरस्तस्य ज्योत्स्नया कन्दलिताभिः पल्लविताभिरिन्दुदृषदां चन्द्रकान्तमणीनामद्भिर्जलैनदीमातृकाः । नदी माता परिपालिका येषां ते । चन्द्रकान्तप्रसरणज'लप्रवाहो नदीत्वेन रूपितः । गौर्या हस्तगुणेन भद्रकहस्तकर्मणा प्रवृद्धवपुषः । अत एव धात्रेयकभ्राता कार्तिकेयः । तन्मात्रा गौर्या शाखिनां पोषणात् । धात्री उपमाता गौरी । धात्रेयकभ्रातृस्नेहेन हेतुना सहोढं सहप्राप्तं षण्मुखशिशुक्रीडामुखं यैस्ते । यादृशं मुखं गौरीतः षण्मुखेन लब्धं तादृशं शाखिभिरपि तैस्तेन सहैव लब्धमिति भावः । गिरेरुप- . रिभूरचित्यका । 'उपत्यकानेरासन्ना भूमिरूर्वमधित्यका' इत्यमरः । सहस्त्राक्षैरिति । सहस्रमक्षीणि येषु तादृशैरङ्गैः कायावयवर्नमसितरि नतिं कुर्वति सति मखभुजां पत्यौ इन्द्रे आत्मानं खं चक्षुषां नीलोत्पलसाम्यान्नीलोत्पलमयीमिव मालारूपामुपनयति सति १. 'मण्डलीभिः'. २. 'निबिडनिपीडन'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy