________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः ]
अनर्घराघवम् ।
२७७
सीता - ( साभ्यसूयमिव ) णिअदेव्वदुव्विलासविआरालसो लोओ लच्छीदेवीए दुज्जसवअणाई गाएदि । (पुरो दर्शयन्ती ) को एसो दीसदि दिअस कूडी किद जोण्हाविच्छद्दपडिरूवो गिरी ।
विभीषणः - देवि,
सोऽयं कैलासशैलः स्फटिकमणिभुवामंशुजालैर्ज्वलद्भिछाया पीतापि यत्र प्रतिकृतिभिरुपस्थाप्यते पादपानाम् । यत्रोपान्तोपसर्पत्तपनकरधृतस्यापि पद्मस्य मुद्रा
मुद्दामानो दिशन्ति त्रिपुरहरशिरश्चन्द्रलेखामयूखाः ॥ ४५ ॥ रामः — हन्त, शतधा दृश्यमानोऽपि न चक्षुरकौतुकं करोति । गिरिः कैलासोऽयं दशवदनकेयूरविलस
नमणिश्रेणीपत्राङ्करमकरमुद्राङ्कितशिलः ।
अमुष्मिन्नारुह्य स्फटिकमय सर्वाङ्गविमले
निरीक्षन्ते यक्षाः फणिपतिपुरस्यापि चरितम् ॥ ४६ ॥
स्फोरणाय । उच्चैः पदं महोत्कर्षेण (महोत्कर्षम् ) । करवालः खङ्गः । ध्रुवमुत्प्रेक्षे | असिधाराव्रतमसिधारायां संचरणरूपं व्रतमित्यर्थः । चरति करोति । णिअदेव्वेति । ‘निजदैवदुर्विलासविचारालसो लोको लक्ष्मीदेव्या दुर्यशोवचनानि गायति । क एष दृश्यते दिवसकूटीकृतज्योत्स्नाविच्छर्दप्रतिरूपो गिरिः ॥' [ इति च्छाया ।] इह दैवं भाग्यम् । दुर्विलासो दुर्विपाकः । विच्छर्दः समूहः । प्रतिरूपस्तुल्यः । सोऽयमिति । सोऽयं कैलासनामा शैलः । अस्तीत्यध्याहार्यम् । यत्र शैले पादपानां वृक्षाणां छाया स्फटिकांशुजालैः पीताप्यपह्नुतापि प्रतिकृतिभिः प्रतिबिम्बैरुत्थाप्यते व्यक्तीक्रियते । शून्यनभोभागे स्फाटिककिरणैरेव वृक्षच्छाया नाशिता । स्फटिकभुवि तु प्रतिबिम्बेन गृह्यत इत्यर्थः । गिरेरत्युच्चतया रवेरुपान्तगमनम् । करो हस्तो रश्मिश्च । धृतं विकासितं विधृतं च । पद्ममब्जम् । मुद्रा संकोचः । त्रिपुरहरो महेशः । लेखा कला तस्या मयूखाः किरणाः । प्रकाशक सूर्य किरण समीपस्थितान्यपि पद्मानि अतिसंनिहितप्रबलमहादेवमस्तकस्थचन्द्रकिरणा मुद्रयन्तीति भावः । गिरिरिति । केयूरमङ्गदम् । पत्राङ्कुरं पत्रावली । मकरचिह्नविशेषस्तस्य मुद्रया चिह्नेनाङ्किता शिला यस्य सः । अमुष्मिन्कैलासे स्फटिकमयसर्वाङ्गविमले आरुह्य यक्षाः फणिपतिपुरस्यापि वासुकिनगरस्य पातालस्यापि व्यवहारं 'पश्यन्ति । अत्युच्चत्वात् । यद्वा अतिविमलस्फटिकतेजसा चक्षुस्तेजः प्रसरणस्याप्रतिबन्धा
१. ' दृश्यमानेन चक्षुः '; 'दृश्यगानो न चक्षुः '.
For Private and Personal Use Only