________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६
काव्यमाला।
विभीषणः-(तदेव रामसूक्तं भावयन् ।) अहह ।
प्रक्षेप्तुमुदधौ लक्ष्मीं भूयोऽपि वलते मनः ।
किं तु प्रक्षिप्त एवायं पुनरायाति चन्द्रमाः ॥ ४२ ॥ (विमृश्य चाकाशे ।)
कस्मैचित्कपटाय कैटभरिपूरःपीठदीर्घालयां
देवि त्वामभिवाद्य कुप्यसि न चेत्तत्किंचिदाचक्ष्महे । यत्ते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच्च ते
नीचान्नीचतरोपसर्पणमपामेतत्किमाचार्यकम् ॥ ४३ ॥ लक्ष्मण:-(सहासम् ।) हन्त, सुरासुरमल्लभटीतूर्यतालनर्तकी सकलराजकुलखलीकारखजूला साहसिकजनसहस्रशस्त्रान्धकारखेलनखद्योती मधुमथनजीमूतविलासविद्युल्लता किमेवमुपालभ्यते । इयं हि
गुणवद्भिः सह संगममुच्चैः पदमाप्तुमुत्सुका लक्ष्मीः । वीरकरवालवसतिध्रुवमसिधाराव्रतं चरति ॥ ४४ ॥
भवेत्सीताथ नायिका ॥' इति सूक्तं सुवचनम् । 'तत्ताहक्फणिराज-' इति । मनः कर्तृ । वलते लगति । किं तु प्रक्षेपोऽस्या अयुक्तः । चन्द्रः प्रक्षिप्तोऽप्यायाति । यतः सूर्याचन्द्रमसौ पश्चिमसमुद्रं प्रविश्य पूर्वसमुद्रेणोत्तिष्ठत इत्यागमः । कस्मैचिदिति । हे देवि लक्ष्मि, चेद्यदि न कुप्यसि तदा खामभिवाद्य नत्वा किंचिदाचक्ष्महे ब्रूमः । कीदृशी । कस्मैचित्कपटाय । वञ्चनेन लोकविश्वासार्थमिति भावः । कैटभरिपुर्विष्णुस्तस्य हृदयपीठमेव दीर्घश्चिरकालीन आलयो निवासस्थानं यस्यास्ताम् । यत्ते मन्दिरं गृहमम्बुजन्म पद्मं किमिदमन्तः कुटिलपत्रसंनिवेशं विद्याभ्यासस्थानम् । अत एव त्वयि कुटिलतेति भावः । यच्च ते नीचान्नीचतरस्योपसर्पणं तत्किमपां जलानामाचार्यकमाचार्यत्वम् । उपदेष्टुत्वमित्यर्थः। यथा आपो नीचानीचतरं यान्ति तथा त्वमपीति भावः । अयमाशयः-- हरिवक्षसि यच्चिरावस्थानं तल्लोकविश्वासार्थम् । पद्मे च नीचतरोपसर्पणाध्ययनाय जलसंनिधानार्थितया चिरावस्थानम् । अन्यत्र चाञ्चल्यमेवेति । मल्लभटी तूर्यम् । 'मलहली' इति प्रसिद्धं तूर्य ययुद्धकाले ताड्यते । राजकुलं राजसमूहस्तस्य खलीकारः परिभवस्तत्र खजूंला कण्डूदायिनी । खजूं लातीति खर्जूला। 'आतोऽनुपसर्गे कः'।
आत्मनिरपेक्षं कर्म साहसम् । साहसेन दीव्यते । 'तेन दीव्यति-' इति ठक् । साहसिकः । तेषां खड्गान्धकारे कृपाणतमसि खेलने क्रीडायां खद्योती ज्योतिरिङ्गणरूपा । अन्यापि खद्योती तमसि खेलतीति ध्वनिः । लक्ष्मीनिमित्तकमेव खनादिप्रहरणमिति भावः । मधुमथनो विष्णुः स एव जीमूतो मेघः । खद्योतीत्वं विद्युल्लतात्वं च चाञ्चल्य
१. 'मलारभटी'. २. 'साहसिकसहस्र-'.
For Private and Personal Use Only