SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ अङ्कः] अनर्घराधवम् । २७५ रामः-(निर्वर्ण्य सस्मितम् ।) तत्तादृक्फणिराजरज्जुकषणं संरूढपक्षच्छिदा घातारुंतुदमप्यहो कथमयं मन्थाचलः सोढवान् । एतेनैव दुरात्मना जलनिधेरुत्थाप्य पापामिमां ___ लक्ष्मीमीश्वरदुर्गतव्यवहृतिव्यस्तं जगन्निर्मितम् ॥ ११ ॥ सीता-(सोद्वेगम् ।) इमिणा जेव्व मत्थुसेसीकिददुद्धसाअरेण चन्दमुद्धरिअ पउसिदभत्तुणो इत्थिआजणस्स उवरि चारहली विढत्ता । (सर्वे हसन्ति ।) तत्ताहगिति । तत्प्रसिद्धम् । तागतिगुणवत् । फणिराजो वासुकिः । स एव रज्जुर्मथनदोरकम् । कषणं घर्षणम् । संरूढ उपचितः । पक्षच्छिदा पक्षच्छेदः । 'इरितो वा' इत्यङ् । घातः किणः। अरंतुदं व्रणव्यथाकरम् । नवसंरूढवणे घर्षणाद्द:खं भवत्येवेत्लनुभवसिद्धम् । 'विध्वरुषोस्तुदः' इति खश् । 'अरुर्द्विषदजन्तस्य-' इति मुम्, सलोपश्च । मन्थाचलो मन्दरः। सोढवान्कथम् । निष्फलमित्यर्थः । यद्वा केन प्रकारेण । अशक्यवात् । कुतस्तनिरर्थकमित्यत आह-एतेनैव मन्थाचलेन समुद्रादिमां लक्ष्मीमुत्थाप्य इदं जगदीश्वरदुर्गतव्यवहारेण व्यस्तमाकुलं निर्मितं कृतम् । लक्ष्म्या अनुत्पत्तौ जगदेकप्रकृति स्यात् । नतु कोऽपि दुर्गतः कोऽपीश्वर इति । स्त्रीनिन्दामसहमाना सीता च.. न्द्रात्प्राप्तसंतापा पुरुषमपि चन्द्रं निन्दयितुं स्वं लक्ष्यीकृत्याह-इमिणा जेव्वेति । 'अनेनैव मस्तुशेषीकृतदुग्धसागरेण चन्द्रमुद्धत्य प्रोषितभर्तृकस्य स्त्रीजनस्योपरि चारहली विस्तीर्णी' [इति च्छाया।] इह मस्तु तक्रविशेषो दधिजलम् 'घोल' इति प्र.. सिद्धम् । 'मण्डं दधिभवं मस्तु' इत्यमरः। तथा च निःसार इत्यर्थः । चारहली पौरुषम् । देशीशब्दोऽयम् । ननु सीतायाः स्वात्मानमुद्दिश्य मन्दं पापालम्भः (2) तथा च तस्याः प्रोषितपतिकात्वमनुपपन्नम् । तथा हि भरतः—'कुतश्चित्कारणाद्यस्याः पतिर्देशान्तरं गतः । दत्त्वावधि भृशार्ता सा भवेत्प्रोषितभर्तृका ॥' इति । उच्यते-पोषितभर्तृकेति विरहिण्या उपलक्षणम् । विरहिणी च कान्तसङ्गमप्राप्तवती विप्रलम्भरसमनुभवन्ती कालं क्षिपतीति स्थितिः । इदं च सीतायामप्यभूदेवेत्युपपन्नम् । यद्वा मायाहेममृगवधार्थ तद्धारणमेवावधिं दत्वा रामे देशान्तरं गतवति भवत्येव तदा सीता प्रोषितभर्तृकेति । यद्वा प्रोषिता नाम नवमी नायिका । अष्टौ नायिका इत्युपलक्षणम् । सा च सीतैव । तदुक्तं भरते-'प्रवासोऽन्यत्र गमनं भर्तुस्तच्च विशेषणम् । सीतां च कथमाचटे जनः प्रोषितभर्तृकाम् ॥ अन्तर्भावमपश्यद्भिः पश्यद्भिर्जनकात्मजाम् । प्रोषिता नाम नवमी नायिका स्त्रीत्युदाहृतम् ॥ आयोध्यकस्य गृहिणी राक्षसेन प्रवासिता । प्रवासविप्रलब्धातो १. 'सावेगं ससंभ्रमम्'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy