________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
काव्यमाला।
अपि च ।
खेदावामकुचमण्डलपत्रभङ्ग__ संशोषिदक्षिणकराङ्गुलिभस्मरेणुः । स्त्रीपुंनपुंसकपदव्यतिलेवनी वः
शंभोस्तनुः सुखयतु प्रकृतिश्चतुर्थी ॥ ३९ ।। (अन्यतश्च दर्शयन् ।)
आधत्ते दनुसूनुसूदनभुजाकेयूरवज्राङ्कुर
व्यूहोल्लेखपदावलीवलिमयैरङ्गैर्मुदं मन्दरः । आधारीकृतकूर्मपृष्ठकषणप्रक्षीणमूलोऽधुना
जानीमः परतः पयोधिमथनादुच्चैस्तरोऽयं गिरिः ॥ ४० ॥
तिर्यग्भावेन परिधानात् । तद्वोढुं शीलं यस्य सः । ताच्छीलिको णिनिः । 'उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे । प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ॥' इत्यमरः । यस्यार्धनारीश्वरस्य तृतीयं चक्षुः अर्धे शिवस्वरूपाधं जगद्दाहव्यसने विसृमरं प्रसरणशीलं ज्योतिर्खलनस्वरूपम् । व्यसनमासक्तिः । अर्धे च पार्वतीस्वरूपे स्त्रीत्वात् विश्वदाहेन जाता या कृपा तया उद्यद्वाष्पं यस्य तादृशम् । ज्योतिर्बाष्पयोरन्योन्यवेगयोः प्रहल्या संश्लेषेण सिमसिमारूपशब्दं कर्तुं शीलं यस्य तादृशमस्ति । अग्नौ तु स्वल्पजलसंबन्धासिमसिमाशब्दः स्यात् । सिमसिमेल्यव्यक्तानुकरणम् । स्वेदेति । हरस्य तनुर्वः सुखयतु । स्त्रीपुनपुंसकानां पदं स्थानं तस्य व्यतिलचनी अतिकामिका । त्रितयस्यापि वक्तुमशक्यत्वात् । अर्धनारीश्वरतनुन स्त्री । सेश्वरत्वात् । न च पुरुषः । सस्त्रीकत्वात् । नापि नपुंसकम् । सेश्वरस्त्रीकत्वात् । अत एव चतुर्थी प्रकृतिः । चतुर्थ लिङ्गमित्यर्थः । 'प्रकृतिोनिलिङ्गयोः' इति विश्वः । कीदृशी तनुः । हरेण शृङ्गारितया गृहीतगौरीस्तनतटे सात्विकभावाविभीवादुत्पन्नस्वेदेनार्दो वामकुचमण्डलपत्रभङ्गो वामस्तनमण्डलपत्रावली तत्संशोषी दक्षिणकराङ्गुलिभस्मरेणुर्यत्र सा । आधत्त इति । अयं मन्दरो गिरिभेदः अङ्गैर्मुदमाधत्ते । यद्वा अङ्गेलक्षितः । कीदृशैः । दनुसूनुर्दानवस्तत्सूदनो विष्णुस्तस्य बाहुस्थितकङ्कणहीरकाङ्कुरसमूहस्य उल्लेखपदावली विदारणस्थानपतिरेव वलिरुदरावयवस्त्रिवली तन्मयैः । उल्लेखो विदारणम् । पदं स्थानम् । विष्णुना जलधिमथनार्थ बाहुभिर्बद्धा कूर्मपृष्ठे मन्दरो धृतस्तदा तद्बाहुहीरकैरेवं लक्ष्यत इति भावः । समुद्रमथनावसरे आधारीकृतं मथनपात्रीकृतं यत्कूर्मपृष्ठं तस्य कषणेन घर्षणेन प्रक्षीणं कृशीभूतमपचितं मूलं यस्य तादृशो यतः अतः पयोधिमथनात्परतः पूर्वमयं गिरिरुच्चैस्तरोऽत्युच्च इति जानीमः ।
१. 'पत्रभङ्गी-'. २. 'लङ्घनीया'. ३. 'अग्रतथ'.
For Private and Personal Use Only