________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः] अनर्घराघवम् ।
२७३ अपि च ।
संभोगानतिरिच्यमानविभवो यद्विप्रलम्भो रस
स्तद्दिव्यं मिथुनं परस्परपरिस्यूतं नमस्कुर्महे । एकस्याः प्रतिबिम्बसंभृतविपर्यासे मुहुर्दर्पणे
सव्याङ्गस्थितिकौतुकं शमयति खामी स यत्रापरः ॥ ३७॥ विभीषणः-देव, खच्छन्दैकस्तनश्रीरुभयमतमिलन्मौलिचन्द्रः फणीन्द्र
प्राचीनावीतवाही सुखयतु भगवानर्धनारीश्वरो वः । यस्यार्धे विश्वदाहव्यसनविसृमरं ज्योतिरर्धे कृपोद्य
द्वाप्पं चान्योन्यवेगप्रहतिसिमसिमाकारि चक्षुस्तृतीयम् ॥ ३८ ॥ इति स्यात् । संभोगेति । तद्दिव्यं मिथुनं स्त्रीपुंसौ नमस्कुर्महे । कीदृशम् । परस्परमन्योन्यं परिस्यूतं मिलितम् । यदित्यव्ययं यस्यार्थे । यस्य विप्रलम्भो रसो विप्रलम्भरूपः शृङ्गारः संभोगात मिलितस्त्रीपुरुषचेटाविशेषरूपादनतिरिच्यमानो विवेक्तुमशक्यो विभवो वैभवं यस्य सः। यत्र मिथुने संभोग एव परं शृङ्गारो न विप्रलम्भः । संभोगश्च मिलितस्त्रीपुरुषयोश्चेष्टाविशेषः स चात्र नित्यमेवेति भावः । 'शृङ्गारः शुचिरुज्ज्वलः स्मरकलानिर्वेदसंयोगतो हावार्थादुपपद्यते निरुपमाद्भावात्सुखैकाश्रयः । नारीनायकयोः परस्परभवत्संश्लेषविश्लेषजः संभोगः स च विप्रलम्भ इति च द्वेधा समुत्कीर्तितः ॥ भ्रूविक्षेपकटाक्षवीक्षणकलास्मेरास्यरोमाञ्चितैरन्यैश्चापि विलासचेष्टितलयैरेषोऽभिनेयो नटैः । संभोगेऽप्यथ विप्रलम्भनविधावस्तु प्रपाताननास्मेरास्यश्रवणोपतापि (१) वचनक्ष्मातल्पसंसेवनैः ॥' इति संगीतकल्पतरुः । यत्र मिथुने दर्पणे आदर्शे प्रतिबिम्बे प्रतिकृती संभृत ऊर्जितः । उपदर्शित इति यावत् । यो विपर्यासो वैपरीत्यं तस्मिन्सति एकस्या गौर्याः सव्याङ्गस्थितिकौतुकं वामानावस्थानकुतूहलमपरः स्वामी शिवः शमयति शान्तं करोति । अयं भावः-शरीरस्य दक्षिणभागं विहाय वामभागे मां धारयतीति स्वसौभाग्याय शुद्धायां गौर्या दर्पणे वामं दक्षिणं दक्षिणं च वामं दृश्यत इत्याशयेन भगवता 'आदर्श पश्य तावत् , किं दक्षिणभागे धृतासि उत वामभागे' इत्युक्ताया गौर्या आदर्शदर्शने तथा ज्ञानमभूदिति । 'सव्यं दक्षिणवामयोः' इति विश्वः । स्वच्छन्देति । भगवानर्धनारीश्वरो वो युष्मान्सुखयलिति संबन्धः । कीदृशः । अर्धस्त्रीकलात्स्वच्छन्दा खतन्त्रा एकस्तनस्य श्रीः शोभा यत्र सः उभयमत उभयस्वीकृतः । साधारण इति यावत् । मिलन्मौलिचन्द्रो यस्य सः । फणीन्द्र एव प्राचीनावीतम् । दक्षिणस्कन्धे १. 'संयोगात्'. २. 'उभयदल-'. ३. 'विसमरज्योतिः'.
अन. २४
For Private and Personal Use Only