________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
काव्यमाला।
संप्रदातरि महौषधीमये भूधरे सुखमुवाह पार्वतीम् ।
मूढकङ्कणफणीन्द्रनिर्भयां तारकेश्वरकिशोरशेखरः ॥ ३४ ॥ रामः-आं देवि, इहैव
पितरि निजतुहिनसंपत्कल्पितहेमन्तविभ्रमे गौरी ।
निर्मदभुजंगभूषणमभीषणं प्रियकरं भेजे ॥ ३५ ॥ सीता-(सस्मितम् ।) अज्जउत्त, अवि एदस्सि जेव्व मअणतणुदहणवइअरणिरप्पणो फुडमविस्ससन्तीए गोरीए चन्दचूडो संघडिदो णिअसरीरेण । रामः-(विहस्य ।) आं देवि, एतस्यां हि तुषारभूधरशिरःसीम्नि प्रियार्थेन च
स्वेनार्धेन च तादृशे पशुपतौ वृत्तेऽर्धनारीश्वरे । शेषेणार्धयुगेन सप्रहसनं गौरीसखीभिस्तदा
चक्रे दक्षिणवामयोर्विनिमयादन्योऽर्धनारीश्वरः ॥ ३६ ॥
सम्यक्प्रदानकर्ता । संप्रदातरि सतीत्यर्थः । तारकेश्वरश्चन्द्रः । किशोरो बालः । स शेखरं यस्य स हरः मुग्धकङ्कणसर्पाभयमन्यां गौरी सुखं यथा स्यादेवमुवाह परिणयति स्म । अमृतरइमे लत्वेऽपि कन्यादातुर्हिममयत्वान्महौषधीमयत्वाच सो निःसहाङ्गस्तेन त्वभयंमन्याया गौर्याः सुखपरिणय इति भावः । 'किशोरो बालकेऽपि स्यात्' इति शाश्वतः । हेमन्तस्य विभ्रमो विलासो यस्य तस्मिन् । हेमन्ते सर्पा निर्मदा भवन्तीति प्रसिद्धिः । अभीषणमभयंकरम् । प्रियकरं हरहस्तम् । अजउत्तेति । 'आर्यपुत्र, अप्येतस्मिन्नेव मदनतनुदहनव्यतिकरनिरात्मीयः स्फुटमविश्वसन्त्या गौर्या चन्द्रचूडः संघटितो निजशरीरेण' [इति च्छाया ।] इह व्यतिकरः संबन्धस्तेन निरात्मीयोऽस्वीयः। 'वइरणिप्पण्णो' इति पाठे निष्पन्नवरः । प्राकृते पूर्वनिपातानियमः । चन्द्रचूडो हरः । एतस्यामिति । एतस्यां हिमालयशिरःसीमायां तादृशे प्रसिद्ध पशुपती शिवे प्रियार्धन स्वेनार्धेन च अर्धनारीश्वरे वृत्ते सति सप्रहसनं साहसं यथा स्यादेवं शेषेणावशिप्टेन गौर्याः शिवस्य चार्धयुगेन दक्षिणवामयोर्विनिमयादन्योन्यपरीवर्तादन्योऽर्धनारीश्वरो गौरीसखीभिश्चक्रे । कृत इत्यर्थः । दक्षिणेन गौरी, वामेन शंकर इति विपर्यासः । अत एव हासः । अर्ध नार्या अर्धनारी सा ईश्वरा यस्य सोऽर्धनारीश्वरः । न तु अर्धे नारी यस्येति समासं कृत्वा ईश्वरशब्देन कर्मधारयः । एवं हि कपि सति अर्धनारीकेश्वर
१. 'गूढ'; 'मुग्ध'.
For Private and Personal Use Only