________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७१
७ अङ्कः]
अनर्घराघवम् । सीता—(रामं प्रति ।) अजउत्त, तधा णिरणुकोसो कधं उण पडिणिवुत्तो महादेओ देवीए ।
रामःस्मरपरिभवनिःसहायदी(रथ सुभगंकरणैरियं तपोभिः । तदकृत यदसौ निजेऽपि देहे जयति जगत्पतिरात्मनाद्वितीयः ॥ ३२ ॥ विभीषणः--(सपरिहासम् ।) __चिरमनया तपसित्वा कपालविषविषधरैकचित्तस्य ।
चक्रे हरस्य मूर्तिः फलमध फलदम च ॥ ३३ ॥ सीता—(विहस्य तं प्रति सकौतुकम् ।) कदरस्सि उण संणिवेसे भअवदीए सव्वमङ्गलाए पाणिग्गहणमङ्गलं आसी।
विभीषणः---इदं पुरस्तादोषधिप्रस्थं नाम नगराजनगरम् । अत्र हि
मेदिनीकरः । नीलेति । नीललोहितो हरः । लाञ्छनं चिह्नम् । जगदन्तः प्रलयः । संज्वलनं संधुक्षणकाष्ठम् । आत्मभूः कामः । कामं काष्ठं प्राप्य ज्वलितो हराक्षिज्वलनो जगत्रयं धक्ष्यतीति भावः । अजउत्तेति । 'आर्यपुत्र, तथा निरनुक्रोशः कथं पुनः प्रतिनिवृत्तो महादेवो देव्यै' [इति च्छाया । इह निरनुक्रोशो निर्दयः । प्रतिनिवृत्तः संमु खीभूतः । स्मरेति । इयं गौरी असुभगः सुभगः क्रियते यैस्तैस्तपोभिस्तदकृत कृतवती यदसौं जगत्पतिः शिवो निजे खीयेऽपि शरीरे आत्मना स्वेन द्वितीयो द्विसंख्यापूरको जयति वर्धते । एका गौरी द्वितीयस्तु स्वयं भगवान् इत्येकस्मिञ्शरीरेऽर्धनारीश्वरोऽभू. दित्यर्थः । सुभगंकरणेति 'आद्यसुभग-' इति करणे ख्युन् । 'अरुर्द्विषत्-' इति मुम् । आत्मनाद्वितीय इत्यत्र 'आत्मनश्च पूरणे' इति तृतीयाया अलुकू । चिरमिति । अनया गौर्या चिरं तपसित्वा तपश्चरित्वा हरस्य मूर्तिः शरीरमधं फलं चक्रे कृतम् । गौर्या तदर्धप्राप्तेः । यद्धि प्राप्यते तत्फलम् । अर्धे च फलदं कृतम् । तदर्धस्य फलदातृवात् । 'भूर्तेः' इति पाठे कायस्याधं फलमधं च फलदमित्यर्थः स्फुट एव । तपसित्वेति तपश्चरतीत्यर्थे 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः' इति क्यङ् । 'क्यस्य विभाषा' इति यलोपः । 'वृष- इति पाठे वृषो वृषभः । विषधरो वासुकिः । 'मूर्तिः काठिन्यकाययोः' इत्यमरः । कदरस्सि इति । 'कतरस्मिन्पुनः संनिवेशे भगवत्याः सर्वमङ्गलायाः पाणिग्रहणमङ्गलमासीत्' [इति च्छाया 1] इह कतरस्मिन्कुत्र । संनिवेशः स्थानम् । सर्वमङ्गला गौरी । ओषधिप्रस्थं हिमालयस्य पादशैलः । नगराजो हिमालयः। संप्रदाता
१. 'सहासम्'.
For Private and Personal Use Only