________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.. २७०
काव्यमाला।
सीता-(पुरो दर्शयन्ती ।) को एसो कप्पाणलज्जालाकलाबकढिजमाणजलणिहिलवणत्थबकणिम्मलअब्भलिहसिहरसहस्समहुरो महीहरो पलोइज्जदि। विभीषणः-देवि,
पुरः प्रालेयशैलोऽयं यस्मिन्मकरकेतवे ।
मृतसंजीवनी दुर्गा महौषधिरजायत ।॥ २९ ॥. सीता-(सकौतुकम् ।) अवि इध जेव चन्दसेहरणअणाणले आहुदीभूदो भअवं मम्महो ।
विभीषणः-आं देवि, आम् । इयमुत्तरेण देवदारुवनलेखा विषमशरदुरन्तसाक्षिणी।
पुरा पुरां भेत्तुरिह त्रिनेत्रीशृङ्गाटके तुल्यरुषि स्थितेऽपि ।
धेग्धग्धगित्यज्वलदेकमन्ये तद्भूमपीडामपि नासहेताम् ॥ ३० ॥ रामः-किमुच्यते ।
नीललोहितललाटलाञ्छने लोचने जयति कोपपावकः ।
रक्षितस्य जगदन्तहेतवे यस्य संज्वलनमात्मभूरभूत् ॥ ३१ ॥ यदुत्कृष्टं तद्धि रत्नं प्रचक्षते' इति विश्वः । को एसो इति । 'क एष कल्पानलज्वालाकलापक्वथ्यमानजलनिधिलवणस्तबकनिर्मलाभ्रंलिहशिखरसहस्रमधुरो महीधरः प्रलोक्यते' [इति च्छाया । इह स्तबको गुच्छः । मधुरो हृद्यः । पुर इति । प्रालेयशैलो हिमालयः। मकरकेतवे कंदर्पाय । तादयें चतुर्थी । मृतः संजीव्यतेऽनया । करणे ल्युट । टित्वात् ङीप् । दुर्गा गौरी । दुगैव महौषधिः । नयनानलदग्धः कामो महेशेन देही कृतो गौरीग्रहेणेति गौरी मृतसंजीवनी महौषधिः । महौषधिरपि मृतसंजीवनी भवतीति ध्वनिः । अवि इध जेवेति । 'अपि इहैव चन्द्रशेखरनयनानले आहुतीभूतो भगवान्मन्मथः' [इति च्छाया ।] इह आहुतीभूतो हवनीयद्रव्यमभूत् । लेखा पतिः। विषमशरः कामः । दुरन्तो दाहः । पुरेति । पुरा पूर्व इह देवदारुवने पुरा भेत्तुः शिवस्य त्रिनेत्री नेत्रत्रयं सैव शृङ्गाटकं वारिकण्टकं 'सिङ्गाडा' इति प्रसिद्ध चतुष्पथं वा तस्मिन् तुल्यक्रोधेऽपि स्थिते सति एकनेत्रं कर्तृ, धक् धक् धक् इत्यनेनाकारेण कंदर्पदाहार्थमज्वलज्ज्वलितम् । अन्ये इतरे नेत्रे तस्य ललाटनेत्राग्नेधूमव्यथामपि न असहेतां' न सहेते स्म । धगित्यव्यक्तानुकरणम् । 'शृङ्गाटकं भवेद्वारिकण्टके च चतुष्पथे' इति
१. 'जानकि'. २. 'धगद्धगित्यज्वलदेक
For Private and Personal Use Only