________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः]
अनर्घराघवम् । अपि च । ___ अमी ते गम्भीरस्तनितरवरौद्रा नयनयो
__ रनायुष्यं पुष्यन्त्यवतमसमुच्चैर्जलमुचः। विसर्पद्भिर्येषामुपरि परमिन्दोः परिमलै
रसंबाधज्योत्सातिमिरचयचित्रं वियदभूत् ॥ २६ ॥ सुग्रीवः-(अधोऽवलोक्य सकौतुकं रामं प्रति ।) देव, दूरादवागवलोकय तावत् ।
निद्भुतोन्नतनतप्रविभक्तिः स्वस्ववर्णविनिविष्टपदार्था ।
अम्बुराशिपरिवेषवती भूश्चित्रकुट्टिममिव प्रतिभाति ॥ २७ ॥ अपि च देव,
अयमनेन महोदधिभोगिना वलयितो वसुधाफणमण्डलः ।
जगदनर्घमवाप्य भवादृशं किमपि रत्नमहंकुरुतेतराम् ॥ २८ ॥ यादःस्तनयित्नुशब्दयोः सामानाधिकरण्यम् । अमी इति । अमी ते जलमुचो मेघा नेत्रयोरनायुष्यमनायुःप्रयोजनकमवतमसं क्षीणान्धकारमुच्चैरत्यर्थेन पुष्यन्ति पुष्टं कुवन्ति । यद्वा उच्चैर्जलमुचो महामेघाः । कीदृशाः । गम्भीरं मन्द्रं स्तनितं मेघध्वनिस्तद्रूपो रवस्तेन रौद्रा भयंकराः । येषां मेघानां परिमलैर्विमदैरसंवाधा असंकटा । विरलेति यावत् । या ज्योत्स्ना तिमिरचयश्च ताभ्यां चित्रं शुक्लकृष्णवर्ण वियदाकाशमभूद्वृत्तम् । कीदृशैः । इन्दोरुपरि परं चाधो विसर्पद्भिः । यद्वा येषामुपरि परिमलैरित्यन्वयः । इन्दोरध इत्यन्वयः । अवतमसमिति 'अवसमन्धेभ्यस्तमसः' इत्यच् । क्षीणेऽवतमसं तमः' इत्यमरः । 'स्यात्परिमलोऽतिम तिमनोहरगन्धयोश्चापि' इति मेदिनीकरः। 'संबाधः संकटे क्षेपे' इति विश्वः । निह्नतेति । निद्भुत आच्छादितः । प्रविभक्तिः कुटिलता विभागो वा । वर्णाः शुक्लादयः। विनिविष्टः स्थितः । पदार्थो वस्तु । स्वे स्वे वणे विनिविष्टाः स्थिताः पदार्था द्रव्याणि यस्यां सा । दूरात्पदार्थविशेषतया न ज्ञाताः शुक्लादिवर्णशालितयैव परमुपलभ्यन्त इति भावः । परिवेषो वेटनम् । चित्रमाश्चर्यम् । कुटिमं भूमिकर्म । अयमिति । अयं वसुधैव फणमण्डलः अनेन महोदधिभोगिना समुद्ररूपसर्पण वलथितो वेष्टितः सन् भवादृशं जगतामनर्घ श्रेष्ठं रत्नमवाप्य अहंकुरुतेतराम् । अत्यर्थमहंकारं करोतीत्यर्थः । सर्पण कृष्णवर्णत्वात्समुद्रस्य रूपणम् । अब्धिव्योम्नोः कृष्णत्वं कविसंप्रदायः । अनर्घ श्रेष्ठं भवादृशं वां रत्नं प्राप्य । 'जाती जाती
१. 'अपि च' इति पुस्तकान्तरे नास्ति. २. 'दूरादागवलोकय'; 'दूरादवलोकय'.
For Private and Personal Use Only