________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
काव्यमाला।
रामः-(विहस्य ।) आं जानकि, आम् ।
क्रौञ्चं विमुच्य पुत्रं च पितरं च हिमालयम् ।
प्रविश्य जलधिं पक्षौ रक्षतानेन किंकृतम् ॥ २३ ॥ सीता--(हसन्ती पुष्पकं प्रति ।) विमाणराअ, गअणमग्गचंकमणकोदूहलुल्लसिअमाणसामि । ता उण्णमेहि दाव । रामः-(सकोतुकस्मितम् ।) देवि रत्नगर्भागर्भरत्नशलाके, पश्य पश्य ।
यथा यथा परं व्योम विमानमधिरोहति ।
तथा तथापसर्पन्ति परतः परितो दिशः ॥ २४ ॥ किं च ।
आसन्नतपनाश्यानत्वचः पुष्पकपीडिताः । गगनार्णवयादांसि स्तिम्यन्ति स्तनयन्निव ॥ २५ ॥
जानामि पक्षच्छेदमपि विना स्थावरीभूतः' [इति च्छाया ।] इह गौरीगुरोहिमालयस्य । युवराजः कृताभिषेकः पुत्रः । गर्भो मध्यम् । जानामीत्यत्र वाक्यार्थस्यैव कर्मता । इतिरध्याहार्यो वा । अपिभिन्नक्रमः । तेन पदच्छेदं विनापीत्यर्थः । स्थावरः स्थिरः । क्रौञ्च गिरिभेदम् । किंकृतं कुत्सितं कृतम् । पितापुत्रयोस्त्यागात् । यद्वा किं कृतम् , अपि तु न किमपि कृतमित्यर्थः । विमाणेति । 'विमानराज, गगनमार्गचक्रमणकौतूहलोल्लसितमानसास्मि । तदुन्नम तावत्' [इति च्छाया ।] इह चक्रमणं कौटिल्यगमनम् । 'नित्यं कौटिल्ये गतौ' इति यङ् । 'नुगतोऽनुनासिकान्तस्य' इति नुक् । उन्नम ऊर्ध्व गच्छ । 'उल्लफलिदमाणसह्मि' इति पाठे उल्लफलिदशब्दो देशी उत्कण्ठिते वर्तते । 'हल्लहलमाणसह्मि' इति पाठे हलहलशब्दोऽपि देशी उत्सुकतामाह । यथेति । विमानं कर्तृ । परमुपरि । व्योम कर्म । अपसर्पन्ति पलायन्ते । परतोऽन्यस्थानम् । परितः सर्वतः । 'परतः परतः' इति पाठे 'नित्यवीप्सयोः' इति वीप्सायां द्विरुक्तिः । आसनेति । आसन्नो निकटो यस्तपनः सूर्यस्तस्य तेजसा आश्यानाः शुष्कास्त्वच इव खच एकदेशा येषां तादृशाः स्तनयित्नवो मेघाः स्तिम्यन्ति आर्द्राभूताः शब्दं कुर्वन्ति । यद्यपि 'स्तिमिर आर्दीभावे' देवादिक आर्द्रतामात्रे पठ्यते, तथापि खभावादाीभावपूर्वकशब्दे तस्य प्रयोगः । तथैव सहचारात् । यादांसि जलजन्तवः । अजहल्लिङ्गतया
१. 'विहस्य' इति पुस्तकान्तरे नास्ति. २. 'विलुप्य'. ३. 'तेन'. ४. 'रत्नगर्भागर्भरत्नशलाके' इति पुस्तकान्तरे नास्ति. ५. 'तिम्यन्ति'.
For Private and Personal Use Only